SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सांख्यमतम् । भृतान्युत्पद्यन्ते, असाधारणकैकगुणकथनमिदम् , उत्पत्तिश्च शब्दतन्मात्रादाकाशं शब्दगुणं शब्दो ह्यम्बरगुण इति, शब्दतन्मात्रसहितात्स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुण इति, शब्दस्पर्शतन्मात्रसहिताद रूपतन्मात्रात्तेजः शब्दस्पर्शरूपगुणमिति, शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणा इति, शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति, पञ्चभ्यः पञ्चभूतकमित्यर्थः ॥ ४० ॥ प्रकृतिविस्तरमेवोपसंहरनाहएवं चतुर्विंशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणस्तु भोक्ता तत्त्वं पुमान्नित्यचिदभ्युपेतः॥ एवं पूर्वोक्तप्रकारेण सांख्यमते चतुर्विंशतितत्त्वरूपं प्रधानं निवेदितम् , प्रकृतिर्महानहङ्कारश्चेति त्रयम् , पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनस्त्वेकं, पञ्च तन्मात्राणि, पञ्च भूतानि रूपं यस्येत्येवंविधा प्रकृतिः कथितेत्यर्थः, पञ्चविंशतितमं तच्चमाह-अन्यस्त्विति । अन्योऽकर्ता पुरुषः, प्रकृतेरेव संसरणादिधर्मवाद्, यदुक्तं-प्रकृतिः करोति प्रकृतिर्वध्यते, प्रकृतिर्मुच्यते, पुरुषोऽबद्धः पुरुषो मुक्तः, पुरुषस्तु अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः। अकर्ता निर्गुणः सूक्ष्मः आत्मा कापिलदर्शने ॥ पुरुषगुणानाह-विगुण इति । सत्त्वरजस्तमोरूपगुणत्रयविकलः, तथा भोक्ता भ.गी, एवंप्रकारः पुमान् तत्त्वं पञ्चविंशतितमं तत्त्वमित्यर्थः, तथा नित्यचिदभ्युपेतः, नित्या चासो चिच्चैतन्यशक्तिस्तयाऽभ्युपेतः सहितः, आत्मा हि स्वं बुद्धेरव्यतिरिक्तमभिमन्यते, सुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति, बुद्धिश्वोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, ततः सुख्यहं दुःख्यहमित्युपचर्यते, आह च पातञ्जले- 'शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रतिभासत' इति, मुख्यतस्तु चिच्छक्तिविषयपरिच्छेदशून्या, बुद्धरेव
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy