SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सटीके षड्दर्शनसमुच्चये निदर्शनेन तमेवार्थ द्रढयन्नाह रोलम्बगबलव्यालतमामलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२०॥ यथेति दृष्टान्तकथनारम्भे, रोलम्बाः = भ्रमराः, गवलं माहिपंशृङ्गम् , व्याला गजाः सपो वा तमालाः = वृक्षविशेषाः, सर्वेऽध्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः, द्वन्द्वसमासो बहुव्रीहिश्च, एवंप्रायाः = एवंविधाः पयोमुचो मेधा वृष्टिं न व्यभिवरन्तीति, एवंप्राया इत्युपलक्षणेन परेऽपि दृष्टिहेतवोऽभ्युनत्यादिविशेषा ज्ञेयाः । यदुक्तम् 'गम्भीरगर्जितारम्भनिर्मिन्नगिरिगहराः । तुङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः' इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ॥ २० ॥ शेषवन्नामधेयं द्वितीयमनुमानभेदमाहकार्याकारणानुमानं यच्च तच्छेषयन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥ २१ ॥ यत्कार्यात्फलात्कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेपवदनुमानं मतं कथितं नैयायिकशासने, यथा तथाविधनदीपूराद्परि मेघो वृष्टस्तथाविधप्रवहत्सलिलसम्भारभरितो यो नदीपूरः सरित्प्रवाहस्तस्मादुपरि शिखरिशिखरोपरि जलधराभिवर्पणज्ञानं तच्छेपवत्, अत्र कार्य नदीपूरः कारणं च पर्वतोपरि मेघो वृष्ट इति । उक्तं च नैयायिकैः 'आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुटफेनच्छटाऽङ्कितः ॥ वहरहुलशेवालफलशाद्धलसंकुलः। नदीपूरविशेषोऽपि शक्यते न निवेदितुम् ॥ इति ॥२१॥ तृतीयानुमानमाह यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२॥
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy