________________
२
।
धितकार्य । विस्मयंते वीक्ष्यास्य रचनासौगम्यं वैयाकरणप्रधानाभीनं सूत्रसूत्रणलाघवं च। वर्तते प तत एवाध लिखिता ख्यातिः- प्रमाणमकलंकस्य पूज्यपादस्य लक्षणं ।।
धनंजयकवेः काव्यं रत्नत्रयमकंटकं ॥
__ संस्करणमेदः। संलभ्यते भारतवर्षोयोत्तरदक्षिणप्रांतयोभिन्नभिन्नं संस्करणद्वयं । संति च तत्रोत्तरीयसंस्करणे पार | सूत्रानुकारि खंडितावयवं सूत्रं वार्तिकेष्टिप्रभृतयश्च । परं ग्रंथकर्तुर्नाम मंगलाचरणमाद्यंतसूत्रमेवमन्या सूत्राणि चोभयोः समान्येव । संपद्यतेऽतो महान् संदेहो यत्कतरनिर्मितमस्मद्भक्तिभाजनपूज्यपादपूज्यप न कतरच्चान्येन । नास्ति किंचित्प्रमाणं पूर्वाचार्यनिर्दिष्टमस्मत्समीपे येन शक्नुयाम सरलतया निर्णेतुं । यद्य विवादास्पदमेतत्तथापि तत्संस्करणयुगलनिरीक्षणतया पार्यतेऽवबोद्धं। निरणायि खाल्पशेमुषीशक्तिवशंवर रस्माभिर्वीक्ष्य तेअपि संस्करणे यद्दाक्षिणात्यमेव गरीयस्तनिर्मित च। निर्णायकनिमित्तानि निम्ननिबद्धानि।।
प्रथमं-सांप्रतिकधूमशकटमुद्रणालयप्रभृतिसौगम्याभावेन दाक्षिणात्योऽयमाचार्यः संभवतया निर्माय पूर्व प्रचारयितुं स्वग्रंथानासीत्तत्रैव स्वजन्मभूमौ विभुः पश्चाच्चोत्तरभारते। मन्यामहेऽतो तज्जननमत्यामुपलभ्यमान नमेव व्याकरणं तत्कृतं ।
द्वितीयं-पुष्णति संप्राप्तटीकाग्रंथाश्चास्मन्मतमेव । यावत्यश्चोपलब्धा अधुनापर्यंत टीकास्ता दृश्यंने दाक्षिणात्यसंस्करणं समाश्रित्यैवोपजीव्यमाना विहायकां श्रीमदभयनंदिविरचितां महावृत्ति। वर्तते सा चोत्तरीय संस्करणस्य। ये च मूत्रपाठप्रभृतिपंचपाठाः समुपलब्धास्तेऽपि दक्षिणसंस्करणस्यैव । आचार्यप्रवरधीगुणनंदिविरचितायां जैनेंद्रप्रक्रियायां संदृदयते स्थानेषु बहषु समुखोऽधस्तनप्रकारकः ।
नमः श्रीपूज्यपादाय लक्षणं यदुपक्रमं ।
यदेवात्र तदन्यत्र यत्रात्रास्ति न तत् कचित् ॥ तृतीयं-संकेतभिन्नता। ज्ञापितानि चोतरीयसंस्करणे परस्मैपदात्मनेपदोभयपदान्युदात्तानुदात्तस्वरितस्वरभेदचिन्हैः। न हि नद्वेदाभ्यायिनोऽता केषामपि मुज्ञानकर ज्ञापनं । नास्मामिस्तेषां स्वरभावाभावमुररीक्रियते पर प्रतिभात्यस्मिन् सर्वोपयोगिनि व्याकरणे कतुरमिप्रायसिद्धधभाव एतादृशेन यत्नसाध्येन संकेतेन । संतुष्टिमुपगच्छामो वयं विलोक्य दक्षिणसंस्करण न हि तत्रोपरिलिखितसंकेताश्रयणं। पर समाश्रिता विश्वहितसाधिकाऽपरैवाभिज्ञापनसरणिः। यया च स्थूलबुद्धयोऽन्यत्राकृतपरिश्रमिणोऽपि तज्ज्ञानसमर्था भवेयुः । संति चानुबंधका धातुष्वात्मनेपदपरस्मैपदोभयसंसूचकाः। तथाहि-वर्तते येषु ऐकारोऽथवा उकारोऽनुबंधः संति तयात्मनेपदिनः। येषु अकारस्तयुभयपदिनो येषु चाभावस्त्रयाणामपि संति ते परस्मैपदिनः । यथा-एधेवृद्धौ, स्मिइ-ईषद्धसने, वपोज-वपने, भू-सत्तायामादयः ।
चतुर्थ-सर्वांगनिर्दोषव्याकरणता। तदेव निर्दोषं सर्वांगपूर्ण च व्याकरणशास्त्रं यत्सारगर्भितनिखिलार्थप्रतिपादकसूत्रसूत्रितं, समाश्रितभाषासामस्त्यावबोधकं । परमेतल्लक्षणाभावोऽस्त्युत्तरसंस्करणे । नहि तत्राखिलानिसूत्राणि, निबद्धास्तत्तत्स्थाने सूरिसूर्यश्री-अभयनंदिपादेन वार्तिकेष्टिप्रभृतयः । संसूच्यते तेन सूत्रकर्तुनिलाघवं तद्विषयाज्ञानाप्रसिद्धिकारणाभ्यामेव वार्निकादिरचनायाः संभवात् । न हि वार्तिकवेदितविषयस्याप्रसिद्धिरासीतत्कालप्रथितग्रंथेषु तद्दर्शनात् , स्वयमाचार्यपूज्यपादरेवोदाइतत्वाच। समुदाहृतं तत्त्वार्थसूत्रटीकायां सर्वार्थसिद्धौ "प्रमाणनयैरधिगमः" इति सूत्रव्याख्यावेलायां "नयशब्दस्याल्पारतरत्वात्पूर्वनिपातः प्राप्नोति । नैष दोषः । अभ्यर्हितत्वात्प्रमाणस्य तत्पूर्वनिपातः”। नास्त्येतदू विषयप्रतिपादकं किंचित्सूत्रं महावृत्तौ परं "अभ्यर्हितं पूर्व निपततीति" कृतं वार्तिकमभयनंदिमिः । पर दाक्षिणात्ये संस्करणे दृश्यते "अच्र्ये ।१।३।११५। इति सूत्रं । एवमेवान्येषु बहुष्वपि स्थलेषु संदर्शनान्नाद्यांत्यकारणसंघटनं समुपयुज्यते । तदवध्रियतेऽस्मामिः दाक्षिणात्यमेवतनिर्मितं ।
पंचम-उत्तरीयसंस्करणे प्रत्याहारसूत्रानुपलब्धिः। असंभवमेतावद्व्याकरणसूत्ररचयितुः खल्पप्रत्याहाररचनायामवहेलनं तथाऽन्याचार्यप्रणीतैस्तैः स्वकार्यसाधनं। पर संदृश्यते मिनानि तानि दाक्षिणात्यसंस्करणे ।
इति समुपस्थाप्य विवेचनायै स्वमतं विरम्यतेऽस्माभिः । कलकत्ता। २६-५-१६।।
श्रीश्रीलाला।