SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ क्षतिं मनः-शुद्धि-विधेरतिक्रमं व्यतिक्रमं शील-वृतेविलंघनम् । प्रभोचितारं विषयेषु वर्तनं वदन्त्यनाचारमिहातिसक्तताम् ।। यदर्थ-मात्रा-पदवाक्य-हीनं मया प्रमादाद्यदि किश्चनोक्तम् । तन्मे क्षमित्वा विदधातु देवी सरस्वती केवलयोध-लब्धिम् ।। वोधिः समाधिः परिणाम-शुद्धिः स्वात्मोपलन्धिः शिव-सौख्य-सिद्धिः। चिन्तामणिं चिन्तित-वस्तु-दाने त्वां वन्द्यमानस्य भमास्तु देवि ॥११॥ यः स्मर्यते सर्व-मुनीन्द्र-वृन्दैर्यः स्तूयते सर्वनरामरेन्द्रैः। यो गीयते वेद-पुराण-शास्त्रैः स देव-देवो हृदये ममास्ताम् ।। यो दर्शन-ज्ञान-सुख-स्वभावः समस्त-संसार-विकार-बाह्यः । समाधिगम्यः परमात्म-संज्ञः स देव-देवो हृदये ममास्ताम् ॥ निपूदते यो भव-दुस-जालं निरीक्षते यो जगदन्तरालम् । योऽन्तर्गतो योगि-निरीक्षणीयः स देव-देवो हृदये ममास्ताम् ॥ विमुक्ति-मार्गप्रतिपादको यो यो जन्म-मृत्यु-व्यसनाधतीतः। त्रिलोक-लोकी विकलोऽकलकः स देव-देवो हृदये ममास्ताम्॥ क्रोडीकृताशेप-शरीरि-वर्गा रागादयो यस्य न सन्ति दोषाः । निरिन्द्रियोज्ञानमयोऽनपायः स देव-देवो हृदये ममास्ताम् ।। यो व्यापको विश्व-जनीनवृत्तेः सिद्धो विबुद्धो धुत-कर्म-बन्धः । ध्यातो धुनीते सकलं विकारं स देव-देवो हृदये ममास्ताम् ॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy