SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ दानं ज्ञान-धनाय दत्तमसकृत्पात्राय सद्वत्तये चीर्णान्युग्र-तपांसि तेन सुचिरं पूजाश्च वह्वयः कृताः । शीलाना निचयः सहामलगुणः सर्वः समासादितो दृष्टस्त्वं जिन येन दृष्टि-सुभगः श्रद्धा-परेण क्षणम् ॥६॥ प्रज्ञा-पारमितः स एव भगवान्पारं स एव श्रुत स्कन्धाब्धेर्गुण-रत्न-भूपण इति श्लाघ्यः स एव ध्रुवम् । नीयन्ते जिन येन कर्ण-हृदयालङ्कारतां त्वद्गुणाः संसाराहि-विषापहार-मणयस्त्रैलोक्य-चूडामणे ||७|| जयति दिविज-वृन्दान्दोलितैरिन्दुरोचिः ___ निचय-रुचिभिरुच्चैश्चामरैर्वीज्यमानः । जिनपतिरनुरज्यन्मुक्ति-साम्राज्य लक्ष्मी । युवति-नव-कटाक्ष-क्षेप-लीलां दधानः ॥८॥ देवः श्व'तातपत्र-त्रय-चमरिरहाशोक-भाश्चक्र-भाषा पुष्पौघासार-सिंहासन-सुरपटहैरष्टभिः प्रातिहार्यैः । साश्चर्यैर्धाजमानः सुर-मनुज-सभाम्भोजिनी-भानुमाली पायानः पादपीठीकृत-सकल-जगत्पाल-मौलिर्जिनेन्द्रः।। नृत्यत्स्वर्दन्ति-दन्ताम्बुरुह-वन-नटन्नाक-नारी-निकायः सद्यस्त्रैलोक्य-यात्रोत्सव-कर-निनदातोद्यमाद्यन्निलिम्पः । हस्ताम्भोजात-लीला-विनिहित सुमनोदाम-रम्यामर-स्त्री काम्यः कल्याण-पूजाविधिषु विजयते देव देवागमस्ते ।। चक्षुष्मानहमेव देव भुवने नेत्रामृत-स्यन्दिनं । त्वद्वक्वेन्दुमतिप्रसाद सुभगैस्तेजोभिरुद्भासितम् ।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy