SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ जन्माटव्यां कथमपि मया देव दीर्घ भ्रमित्या प्राप्तवेयं तव नय-कथा स्फार-पीयुष-वापी । तस्या मध्ये हिमकर-हिम-व्यूह-शीते नितान्त निर्मनं मां न जहति कथं दुःख-दावोपतापाः ॥६॥ पाद-न्यासादपि च पुनतो यात्रया ते त्रिलोकी हेमाभासो भवति सुरभिः श्रीनिवासच पद्मः। सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेपं मनो मे श्रेयः किं तत्स्वयमहरहर्यन्न मामभ्युपैति ॥७॥ पश्यन्तं त्वद्वचनममृतं भक्ति-पाच्या पिपन्तं कारण्यात्पुरुषमसमानन्द-धाम प्रविष्टम् । त्वां दुर्वार-स्मर-मद-हरं त्वत्प्रसादैक-भूमि क्रूराकाराः कथमिवरुजा-कण्टका नि ठन्ति ।।८।। पाषाणात्मा तदितरसमः केवलं रत्न-मूर्तिः मानस्तम्भो भवति च परस्तादृशो रत्न-वर्गः । दृष्टि-प्राप्तो हरति स कथं मान-रोगं नराणां प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्ति-हेतुः ॥६॥ हृद्यः प्राप्तो मरुदपि भवन्मूर्ति-शैलोपवाही सद्यः पुंसां निरवधि-रुजा-धूलिवन्धं धुनोति । ध्यानाहूतो हृदय-कमलं यस्य तु त्वं प्रविष्टः तस्याशक्यः क इह भुवने देव लोकोपकारः ॥१०॥ जानासि त्वं मम भव-भवे यच्च यादृक्च दुःखं - जातं यस्य स्मरणमपि मे शस्त्रवनिष्पिनष्टि ।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy