SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२ रायचन्द्रजैनशास्त्रमालायाम् [ ३६ ] सिद्धस्य कार्यकारणभावनिरासोऽयम् । यथा संसारी जीवो भावकर्मरूपयाऽऽत्मपरिणामसंतत्या द्रव्यकर्म्मरूपया च पुद्गल परिणामसंतत्या कारणभूतया तेन तेन देवमनुष्य तिर्यग्नारकरूपेण कार्यभूत उत्पद्यते न तथा सिद्धरूपेणापीति । सिद्धो भयकर्मक्षये स्वयमुत्पद्यमानो नान्यतः कुतश्चिदुत्पद्यत इति । यथैव च स एव संसारी भावकर्म्मरूपामात्मपरिणामसंततिं द्रव्यकर्मरूपां च पुद्गलपरिणामसंततिं कार्यभूतां कारणभूतत्वेन निर्वर्तयन् तानि तानि देवमनुष्यतिर्यमारकरूपाणि कार्याण्युत्पादय त्यात्मनो न तथा सिद्धरूपमपीति । सिद्धो छुभयकर्म्मक्षये स्वयमात्मानमुत्पादयन् नान्यत्किञ्चिदुत्पादयति ॥ [३७] अत्र जीवाभावो मुक्तिरिति निरस्तम् । द्रव्यं द्रव्यतया शश्वतमिति, नित्ये द्रव्ये पर्यायाणां प्रतिसमयमुच्छेद इति द्रव्यस्य सर्वदा अभूतपर्यायः भाव्यमिति द्रव्यस्य सर्वदा भूतपयैरभाव्यमिति, द्रव्यमन्यद्रव्यैः सह सदा शून्यमिति, द्रव्यं स्वद्रव्येण सदाऽशून्यमिति, कचिज्जीवद्रव्येऽनन्तं ज्ञानं क्वचित्सान्तं ज्ञनमिति, क्वचिज्जीवद्रव्येऽनन्तं क्वचित्सान्तर्मज्ञानमिति । एतदन्यथानुपपद्यमानं मुक्तौ जीवस्य सद्भावमावेदयतीति ॥ [ ३८ ] चेतयितृत्वगुणव्याख्येयम् । के हि चेतयितारः प्रकृष्टतरमोहमलीमसेन प्रकृष्टतरज्ञानावरणमुद्रितानुभावेन चेतकस्वभावेन प्रकृष्टतरवीर्यान्तरायाऽसादितकार्य कारणसामर्थ्याः सुखदुःखरूपं कर्मफलमेव प्राधान्येन चेतयन्ते । अन्ये तु प्रकृष्टतरमोह मलीमसेनापि प्रकृष्टज्ञानावरणमुद्रितानुभावेन चेतकस्वभावेन मनाग्वीर्यान्तरायक्षयोपशमासादित कार्यकारणसामर्थ्याः सुखदुःखानुरूपकर्मफलानुभवनसंवलितमपि कार्यमेव प्राधान्येन चेतयन्ते । अन्यतरे तु प्रक्षालितसकलमोहकलङ्केन समुच्छिन्नकृत्स्नज्ञानावरणतयाऽत्यन्तन्मुद्रितसमस्तानुभावेन चेतकस्वभावेन समस्तवीर्यान्तरायक्षयासादितानन्तवीर्या अपि निर्जीर्णकर्मफलत्वादत्यन्तकृतकृत्यत्वाच्च स्वतो व्यतिरिक्तं स्वाभाविकं सुखं ज्ञानमेत्र चेतयन्त इति ॥ [ ३९ ] अत्र कः किं चेतयत इत्युक्तं । चेतयन्तेऽनुभवन्ति उपलभन्ते विदन्तीत्येकार्थश्चेतनानुभूत्युपलब्धिवेदनानामेकार्थत्वात् । तत्र स्थावराः कर्मफलं चेतयन्ते । साः कार्यं चेतयन्ते । केवलज्ञानिनो ज्ञानं चेतयन्त इति ॥ अथोपयोगगुणव्याख्यानम् । [ ४० ] आत्मनश्चैतन्यानुविधायी परिणाम उपयोगः । सोऽपि द्विविधः । ज्ञानोपयोगो दर्शनोपयो१ सिद्धावस्थायां तावद्द्ङ्कोत्कीर्णज्ञापकैकरूपेण विनश्वरत्वाद्द्रव्यरूपेण शाश्वतस्वरूपमस्ति. २ अथ पर्यायरूपेणागुरुलघुकगुणपदस्थानगतहानिवृद्धयपेक्षयोच्छेदोऽस्ति ३ निर्विकारचिदानन्दैकस्वभावपरिणामेन भवनं भव्यत्वं. ८ अतीतमिथ्यात्वरागादिविभावपरिणामेन भवनं अपरिणमनमभव्यत्वं च ५ खशुद्धात्मद्रव्यविलक्षणेन परद्रव्यक्षेत्रकालभावचतुष्टयेन नास्तित्वं शून्यत्वम्. ६ निजपरमात्मतत्वानुगतद्रव्यक्षेत्र कालभाव रूपेणेतरमशून्यत्वम्. ७ समस्तद्रव्यगुणपर्यायैकसमय प्रकाशनसमर्थसकलविमलकेवलज्ञानगुणेन विज्ञानम्. ८ विनष्टमतिज्ञानादिछद्मस्थाज्ञाने परिज्ञानादविज्ञानम्. ९ मोक्षावस्थायामिदं नित्यत्वादिस्वभावगुणाष्टकमविद्यमानजीवसद्भावे मोक्षे न युज्यते न घटते । तदस्तित्वादेव ज्ञायते मुक्तौ शुद्धजीवसद्भावोऽस्ति १० स्थावरकायाः ११ आच्छादिता - तमाहात्म्येन. १२ आच्छादित - १३ द्वीन्द्रियादयः १४ सिद्धाः १५ अव्यक्तसुखदुःखानुभवरूपं शुभाशुभकर्मफलमनुभवन्ति. १६ द्वीन्द्रियादयस्त्रसजीवाः पुनस्तदेव कर्मफलं निर्विकारपरमानन्दैकखभावमात्ममुखमलभमानाः सन्तो विशेपरागद्वेषानुरूपया कार्यचेतनया सहितमनुभवन्ति १७ चैतन्यमनुविदधात्यन्वयरूपेण परिणमति, अथवा पदार्थपरिच्छित्तिकाले घटोऽयं घटोऽयमित्याद्यर्थग्रहणरूपेण व्यापारयतीति चैतन्यानुविधायी.
SR No.010451
Book TitleRaichandra Jain Shastra Mala Panchastikaya Samay Sara
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages157
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy