SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ अभिसमयालवारालोकः । शासनत्वेन श्लक्ष्णकेशता ॥७६॥ रागाद्यसंलुठितचेतनत्वेनासंलुठितकेशता॥ ७७ ॥ नित्यमपरुषवचनत्वेनापरुषकेशता ॥ ७८॥ बोध्यङ्गकुसुमावकौर्णत्वेन सुरभिकेशता ॥ ७ ॥ सर्वथा शोभासंवर्तनीयत्वेन श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादतलता चेति ॥८०॥ तथा चोक्तम् । ताम्राः स्निग्धाश्च तुङ्गाश्च नखाङ्गुलयो मुनेः । वृत्तश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः ॥ २१ ॥ गढौ गुल्फो समौ पादौ सिंहेभद्विजगोपतेः । विक्रान्तं दक्षिणञ्चारुगमनमृजुत्तते ॥ २२ ॥ मृष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता। पूर्वव्यञ्जनता चारुपृथुमण्डलगात्रता ॥ २३ ॥ समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता । अदौनोत्सदगावत्वे सुसंहतनगात्रता ॥ २४ ॥ सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता। वृत्तमष्टाक्षताक्षामकुक्षिताश्च गभौरता ॥ २५ ॥ दक्षिणावर्तता नाभेः समन्तादर्शनीयता। समाचारः शुचिः कालतिलकापगता तनुः ॥ २६ ॥ करौ तूलमृदू स्निग्धगम्भौरायतलेखता। नात्यायतं वचो बिम्बप्रतिबिम्बोपमोष्ठता ॥ २७॥ मृद्दी तन्वी च रक्ता च जिह्वा जौमूतघोषता । चारुमञ्जस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताःसमाः॥२८॥ अनुपूौं गतास्तुङ्गा नासिका परमं शुचिः। विशले नयने पक्ष्मचितं पद्मदलाक्षिता ॥ २६ ॥ आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ। पौनायतौ समौ कावुपघातविवर्जितौ ॥ ३० ॥
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy