SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । ५२३ त्रिविधं स्मृत्युपस्थानं विधाऽसंमोषधर्मता। वासनायाः समुहातो महतौ करुणा जने ॥५॥ आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः। सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते ॥६॥ इति अन्ये तुसर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरासवाः। स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥ इति । यथारुतत्त्वेन लोकोत्तरानेवानासवान धर्मानभ्युपगम्य तेषां या प्रकृतिरनुत्पादस्तल्लक्षणः स्वाभाविकः कायः स एव च धर्मताकायो धर्मकाय इति भावप्रत्ययलापाद्यपदिश्यत इति व्याख्याय। के पुनस्तेऽनाखवा धर्मा येषां प्रकृतिलक्षणो धर्मकाय इत्याशय बोधिपक्षेत्यादिकारिकामवतारयन्ति । तेषां योगिसंरत्या विशिष्टार्थप्रतिभासजननहारेणाश्रयपरावृत्त्या परात्ता धर्मदेशनाद्यर्थक्रियाकारिणोऽवश्यमहयाश्चितचैत्ताः कथमभ्युपगन्तव्याः। सङ्ग्रहोता इत्यपरः । ___ यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता। इति न्यायाधर्मतात्मककायप्रतिपादनादेवाहयज्ञानात्मको धर्मकायः प्रतिपादित इति चेदेवं तर्हि न्यायस्य तुल्यत्वात्साम्भोगिकनैर्माणिककायदयमपि प्रतिपादितमिति पृथनिर्देशो न कर्तव्यः स्यात् । अथ प्रवचने पठितत्वाद्योगिसंवत्या तनिर्देश इति मतममुनैव न्यायेनादयज्ञानात्मकोऽपि धर्मकायस्तथैव पृथनिर्दिश्यतामिति प्राप्तम् । केचित्कायचतुष्टयव्याख्याने। स्वाभाविकः ससाम्भोगो नैर्माणिकोऽपरस्तथा धर्मकायः सकारिचश्चतुर्धा समुदौरितः ॥
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy