SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । ५११ तयेति। तथागनादिसंयोगवियोगसंमोहविकल्यापनयनार्थं सर्वधर्माणां शून्यत्वेन गगनसमत्वाद् गगनापर्यन्ततया। षष्ठविकल्पार्थमाह। मेरुविचित्रतयेति। असमत्वसंमोहविकल्पापनयनाथं सर्वानिष्टोपनिपाताक्षोभ्यत्वेन मेरुसमत्वात्, सर्वधर्माणां मेरुविचित्रत्वात्। सप्तमविकल्पार्थमाह। रूपापर्यन्ततयेति। दुःखादिसंमोहविकल्पापनयनाथं धर्मधातुस्वरूपत्वात् प्रज्ञादौनामपर्यन्तत्वेन। अष्टमविकल्पार्थमाह। सूर्यरश्मोत्यादि। क्लेशप्रकृतिसंमोहविकल्पापनयनाथं प्रकृतिप्रभास्वरत्वेन सूर्यमण्डलरश्म्यत्यादसमत्वात् सर्वधर्माणां सूर्यरश्मिमण्डलापर्यन्तावभासनतया। नवमविकल्पार्थमाह। सर्वशब्दापर्यन्ततयेति। अद्दयसंमोहविकल्पापनयनाथ नाममावस्वभावेन सर्वशब्दापर्यन्तममत्वात्सर्वधर्माणां सर्वशब्दापर्यन्ततया प्रज्ञापारमिताऽनुगन्तव्या। एतदक्तम् । सर्वाकारापरिज्ञानेन सर्वाकारज्ञतावरणसंमोहे सर्वमार्गापरिज्ञानेन मार्गज्ञतावरणसंमोहे सर्ववस्त्वपरिज्ञानेन सर्वज्ञतावरणसंमोहे प्रज्ञापारमिताऽपरिज्ञानेन सर्वशान्तमार्गसंमोहे तथताज्ञेयरूपाद्यपरिज्ञानेन तथतादिसंयोगवियोगसंमोहे मारादिस्वरूपापरिज्ञानेनासमत्वसंमोहे यथारुतार्थवाहित्वेन दःखादिसत्यसंमोहे रागादिस्वभावापरिज्ञानेन क्लेशप्रत्तिसंमोहे ग्राह्यग्राहकलक्षणापरिज्ञानेनादयसंमोहे च। सत्त्वप्रज्ञप्तितावस्थापनप्रतिभासमानहेतुविषयः प्रज्ञप्तिसन्नेव आत्मा ग्राहक इति प्रज्ञप्तिसत्पुरुषाधिष्ठानो द्वितीयो ग्राहक
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy