SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५०४ अशाविंशतितमपरिवर्तः । यस्मादित्यंभूतोपायकौशलवतां बोधिसत्त्वानामसंख्येयकल्पकोटिनियुतशतसहस्रप्रस्थानापरिमितबुद्धपर्युपासनेन हेतुमहत्त्वेन भावनामार्गस्य प्रतिविशिष्टता स्यादित्यदोषः । तथागतानुस्मरणपूर्वकं भावनामार्गालोचनं विधेयमित्याह। यस्मिन् समये सुभूते इत्यादि। दिवमस्यात्ययेनेति। दिवसपर्यवसानेनाप्यन्तशोऽच्छटासङ्घातमाचकमित्यर्थः। भावनामार्गाभ्यासस्य प्रचुरविचित्रानुशंसपरिदीपनार्थमाह। यश्च सुभूते औपलम्भिक इत्यादि (1). 473, 32)। प्रज्ञापारमितामभिनिहरेदिति भावनामार्गमुत्पादयेत् । गतिप्रश्नपरिहारभेदेन पुनरप्यनुशंसं कथयन्नाह। तथागतसमन्वाहृतस्य होत्यादि। का गतिरिति। कीदृशौ सभागता नान्या गतिरित्यपि तु सम्यक्सम्बोधिगतिः। इमेऽपि सुभूते गुणा इति । इमेप्यनुशंसा इति बहुपुण्यप्रसवनादिगणास्तथागतसमन्वाहारादयोऽनुशंमाः ॥ अभिसमयालंकारालोकायां प्रज्ञापारमिताव्याख्यायामवकौर्ण कुसुमपरिवर्तो नामाष्टाविंशतितमः ॥
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy