SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ४७७ घडविंशतितमपरिवर्तः । वहस्तयन्नाह। साधु साध्वित्यादि (p. 440, 3)। किन्तु संवत्या सुविशुद्धात्कारणात्सविशुद्धं फलमित्याह। यत एव सुभूत इत्यादि। मायोपमत्वेन कार्यकारणयोरविपर्यस्तत्वादिति भावः । विविक्ततेत्यप्यभिनिवेशो न कार्य इत्यादि। सचेत्सुभूते बोधिसत्त्व इत्यादि। शून्यता सर्वदृष्टौनां प्रोक्ता निःसरणं जिनैः। येषां तु शून्यतादृष्टिस्तानसाध्यान् वभाषिरे ॥ इति न्यायादिविक्तताभिनिवेशस्यापि विपर्यासरूपत्वान्नैव प्रज्ञापारमिता स्यात्। कथन्तर्हि तामागम्याभिसम्बुध्यत इति चेदाह । एवं खलु सुभूते इत्यादि। एवमविचारैकरम्यत्वेन मंतिरूपतयेतियावत् । अत एव परमार्थमधिकृत्याह। नापि सुभूते प्रज्ञापारमितामित्यादि। मंस्त्योपसंहरन्नाह। अभिसम्बध्यते चेत्यादि। भाषितस्येति । नाभिसम्बुध्यतेऽभिसम्बध्यते चेत्यस्य । तथैवानुवदन्नाह। एवमेतदित्यादि। दष्करकारक इति संशतिसत्याश्रयेणेति भावः। अत एव परमार्थसत्यमधिकृत्याह । यथाहं भगवन्नित्यादि। भाषितस्येति दष्करकारक इत्यस्य तत्कस्य हेतोरित्याशङ्याह। तथा हि भगवन्नित्यादि (p. 441, 1)। कर्तृकर्मक्रियानुपलम्भदेशनायामनवसादादिना स्वभावविकल्पविरहात् सम्यक्प्रवृत्तत्वेन जिनजनन्याञ्चरतौति आह। सचेद्भगवन्नित्यादि। द्वितीयविकल्पार्थमाह। तद्यथापि नाम भगवन्नित्यादि। अविकल्पत्वाद्भगवन्नित्यनेन गोचविकल्पनिरासो
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy