SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ४३६ ऊनविंशपरिवर्तः । दनुत्पादधर्मि। सत्ताकाले विनाशाभावादनिरोधधर्मि । नो हौदमिति। एकानेकस्वभाववैधुर्यादिति मतिः। यद्येवमभावस्तर्हि निरुध्यत इत्याह। तत् किं मन्यसे सुभूते यो धर्मः प्रकृत्या स्वभावनिरुद्ध एव स धर्मो निरोत्स्यत इति । स्वरूपेण स्वभावनिरुद्यो रूपादिस्वभावरहितो यो धर्मोऽभावसञ्जकः स एव धर्मः किं निरोत्स्यते। नो हौदमिति। अनन्तरं चैयध्विकवस्तुनिरोधनिराकरणादविद्यमानत्वेनाभावो नैव निरुध्यते। मायोपमता तर्हि निरुध्यत इत्याह । तत् किं मन्यसे सुभूते या धर्माणां धर्मता सा निरोत्स्यत इति। नो हौदं भगवन्निति। धर्मताऽविचारैकरम्यताऽलौकरूपत्वात्तत्त्वेन नैव निरुध्यते। किन्तु सर्वस्यैवोत्पन्नस्य वस्तुनः प्रकृत्या मायोपमस्य संत्या निरोधानिरोधगाम्भीर्यमित्युच्यते। तथतागाम्भीर्यार्थमाह। तत् किं मन्यसे सुभूते तथैव स्थास्यति यथा तथतेति। बोधिसत्त्व इति शेषः। अविकल्पज्ञानविषयोपेतत्वादाह। तथैव भगवन् स्थास्यति यथा तथतेति। चैयध्विकबोधिसत्त्वानां तथतावदवस्थानेऽनित्या तथता स्यादिति चेदाह। तत् किं मन्यसे सुभूते यदि तथैव स्थास्यति यथा तथता तदा मा कूटस्थाभूदिति (p. 355, 1)। अकारप्रश्लेषादकूटस्थाऽनित्या माभूत्, अपि तु नित्या कूटस्था स्यादिति किं मन्यसे । __यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता। इति वचनात् सांस्तक्षणिकपदार्थस्वभावत्वादाह । नो हौदमिति। पदार्थरूपत्वान्नैव तर्हि गम्भौरेति चेदाह ।
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy