________________
व्यभिसमयालङ्कारालोकः ।
53
४१०
धर्मावगमेनाणुमात्रधर्मोपलम्भवैकल्यान्नैवं भवत्यविनिवर्तनौयो वाहं न वाहमविनिवर्तनीय इति । प्रयोगाद्यवस्थासु विचिकित्सा संशयसंसौदनापदानि योज्यानि । विचिकित्साद्यभावत्वेन विमुक्तिमार्गत्वाज्ज्ञानस्य विसंयोगप्राप्तिकारणत्वं कथयति । तदेव दृष्टान्तपूर्वकं स्पष्टयन्नाह । तद्यथापि नामेत्यादि । मारकर्मावरोधादिना विसंयोगप्राप्तिकारिचमेव ज्ञापयति । पुनरपि दृष्टान्तेन विस्तारयन्नाह । तद्यथापि नाम सुभूते पुरुष इत्यादि । सर्वथा - ऽपनयनात् प्रतिविनोदयितुं तावत्कालासमुदाचारात् विष्कम्भयितुं वा चालयितुं वा कम्पयितुं वेति स्वस्थानादपनेतुं तत्रैवादृढौकर्तुमित्यर्थः । अनेन च सदेवकेन लोकेन शक्यनिवृत्तित्वेन सदेवकं लोकमतिक्रम्य न्यामावक्रमणान्मार्गे धर्मज्ञानस्य चैधातुकप्रतिपक्षत्वं ज्ञापितं भवेत् । जातिव्यतिवृत्तस्या पौति (p. 337, 8) जन्मान्तरगतस्यापि श्रावकादिचित्तानुत्पादेन प्रयोगस्य यानान्तर नियाणाभावादैकान्तिकत्वमावेदितम् । अभिसम्प्रत्ययलाभेन - सर्वज्ञतात्मकस्वभूमित्रय निश्चितावस्थानान्मार्गेऽन्वयज्ञानक्षान्तिरित्याह । जातिव्यतिवृत्तस्याप्येवं भवति नाहमित्यादि । स्वस्यां भूमाविति । चिसर्वज्ञतायाम् । तथैव तत्कस्य हेतोरित्याशङ्क्याह । तथा हौत्यादि । चित्तेनेति । पञ्चाभिज्ञाधिगमेन । ज्ञानेनेति । सत्याभिसम्बोधेन । तथा तन्नान्यथेति । अर्हत्वं बोधिसत्त्वर्न साक्षात्कर्तव्यमिति । यथोक्तं भगवता तथैव तन्नान्यथेत्यर्थः । एवं प्रत्यवेक्षते । एवं समन्वाहरतौति (p. 338, 4) प्रत्यक्षानुमानाभ्यामव