________________
अभिसमयालङ्कारालोकः।
३४५
जानाति । असच्चासदिति वचनादसतो लोकस्यादर्शनमेव दर्शनम्। परिशिष्टज्ञानकथनार्थमाह। कथञ्चेत्यादि। इति लोकः शून्य इति लोकशून्यताकारज्ञानमुक्तम् । इति लोकं सूचयतीति लोकशून्यतासूचकज्ञानम् । एवं ज्ञापयतीति। लोकशून्यताज्ञापकज्ञानम् । एवं लोकं सन्दर्शयतीति। लोकशून्यतादर्शकज्ञानमित्येतानि बौणि ज्ञानानि यथाक्रमं संग्रहीतपरिपाचितविमोचितानां विनेयानामर्थाय वेदितव्यानि। “तिसः मर्वज्ञताश्चाभिप्रेत्य त्रिविधार्यपुद्गलाधिकारेण यथाक्रमं प्रदेशत्तिमुद्देशत्तिं प्रत्यक्षत्तिं वाधिकृत्यावगन्तव्यानी"त्यार्यविमुक्तिसेनः । इति लोकोऽचिन्त्य इति । अचिन्त्यताज्ञानम् । इति लोकः शान्त इति । शान्तताज्ञानमिति । लाको विविक्त इति । लोकनिरोधज्ञानम्। इति लोको विशुद्धोत्यादिना मंज्ञानिरोधज्ञानञ्च गदितमवगन्तव्यम् । सर्वाकारज्ञतासंगृहीतानि यथोक्तान्येव षोडशन्नानान्यवसातव्यानि। तथा चोक्तम् ।
स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ । गुरुत्वे माननायाञ्च तत्पूजाऽकृतकत्वयोः ॥ २० ॥ सर्वच वृत्तिमज्ञानमदृष्टस्य च दर्शकम् । लोकस्य शून्यताकारसूचकनापकाक्षगम् ॥२१॥ अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च । ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये ॥२२॥ इति अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां
लोकसन्दर्शनपरिवर्तो नाम द्वादशः ॥