SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ दादशपरिवर्तः । _३३६ सरागता । तस्माद्विवेकावस्थायां विगतरागाणि चित्तानि । एतदनुसारेण परिशिष्टेषु सदोषादिहारकेषु ग्रन्थो व्याख्येयः । विपुलचित्तज्ञानं वक्तुं व्यतिरेकान्वयमुखेन हारकइयमाह । विपुलानि चित्तानौत्यादि (p. 263, 2) | असमुत्थानयोगानि सुभूते तानि चित्तान्यसमुत्थानपर्यापन्नानौति । तत्त्वतोऽनुत्पत्तेः कारणसम्बन्ध शून्यत्वेनाममुत्थानयोगानि । प्रादुर्भावविरहात् कामादिधातावप्रतिबद्धत्वात्तान्यसमुत्यानपर्यापन्नान्येवमनुपलम्भादविपुलानि । न हौयन्त इत्यादि । विनाशाभावान्न हौयन्ते उत्पादाभावान्न विवर्धन्ते । अत एव क्वचिद्गमनाभावेनाविगमत्वान्न गच्छन्त्येवं धर्मधातुस्वाभाव्याद्विपुलानि चित्तानौति । महगत - चित्तज्ञानं कथयितुं व्यतिरेकान्वयमुखेन हारकइयमाह । महतानि चित्तानीत्यादि । अनागतिकानि सुभूते तानि चित्तान्यगतिकान्यपर्यापन्नानीति । सत्कार्यप्रतिषेधेनातीतादध्वनस्तदागमन वैकल्यादनागतिकानि चित्तानि । सर्वात्मना विनाशादनागतेऽपि काले गमनानुपपत्तेरगतिकानि । प्रत्युत्पन्नेऽप्येकानेक स्वभाववैधुर्यादपर्यापन्नान्येवममहहतानि । समतासमानि सुभूते तानि चित्तानि स्वभावसमानौति (p. 264, 4) । तत्त्वतोऽनुत्पादरूपत्वादात्मादिनिःस्वभाव तुल्यत्वेन समतासमानि चित्तानि । तथ्यसंवृत्या तु सर्वगुणावाहकरूपेण प्रतिभासनान्मायास्वभावसमान्येवं महद्गतानि । अप्रमाणचित्तज्ञानं निर्दिशन्नाह । श्रप्रमाणानि चित्तानीत्यादि । अनिश्रयत्वादिति । न हि प्रतिनियतस्तेषामाश्रयो विद्यत इत्यप्रमाणानि ।
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy