SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ अभिसमयालयारालोकः। २६५ . रसंस्कृततामुपादाय नित्यमसदित्यसदर्थोऽनित्यार्थः । दुःखेति । आकाशस्य सर्वधर्मेषु समतामुपादाय सर्ववस्तुव्यापि संस्कारदःखम् । शून्येति । अधिष्ठात्रात्मसम्बन्धगन्धानुबन्धेनापि सर्वधर्मानुपलब्धितामुपादाय परपरिकल्पितात्मादिरहितत्वं शून्यम्। अनात्मेति। स्वयमनात्मत्वेन सर्वधर्मानभिनिवेशतामुपादाय पुगलाद्यस्वभावोऽनात्मा। अलक्षणेति । सर्वधर्मानभिनिर्दृत्तितामुपादाय निःस्वभावोऽलक्षणम् । तदेवमनित्यदःखशून्यानात्माकाराः पञ्चमालक्षणाकारस्वभावा इति पञ्चाकारा दःखसत्ये भवन्ति। सर्वशून्यतेति। पूर्वापरभावलक्षणस्यान्तस्य मध्यस्य च परितोऽन्तद्दयेन युक्तत्वात्पर्यन्तस्याविद्यमानत्वेनानन्तापर्यन्ततामुपादाय निरोधसत्याकाराः षोडशशून्यताः सर्वशून्यताः। तबाध्यात्मबहि?भयवस्तूनां निरोधेनाध्यात्मबहि?भयशून्यताकारास्त्रयो निरोधाकारस्वभावाः शून्यतायां भाजनलोके परमार्थे संस्कृतेऽसंस्कृते शाश्वतोछेदान्तेऽनवराग्रसंसारेऽधिगतधर्मानवकारेऽभिनिवेशस्य प्रज्ञप्त्यात्मकस्यऽष्टप्रकारस्य निरोधेन यथाक्रम शून्यताशून्यता। महाशून्यता। परमार्थशून्यता। संस्कृतशून्यता। असंस्कृतशून्यता। अत्यन्तशून्यता। अनवराग्रशून्यता। अनवकारशून्यता चेत्यष्टौ शून्यताकाराः शान्ताकारस्वभावाः। प्रणौताकारः परपरिकल्पितकारकनिरोधेन प्रकृतिशून्यताकारः। विषयभ्रान्त्यात्मिकानां निरोधेन सर्वधर्मलक्षणानुपलम्भशून्यताकारास्त्रयो निःसरणाकारस्वभावाः। स्वभावनिरोधेनाभावस्वभावशून्यताकार एव
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy