SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १५० द्वितीयपरिवर्तः । कारैः शिक्षणमि"त्येवं सर्वधर्मालम्बने ऽग्रधर्मता भवतीति । तथा चोक्तम् । रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥ १० ॥ इति सर्वधर्मानुपलम्भतत्वैकरसत्वाबोधिसत्त्वस्य का सर्वज्ञतेति कांक्षा प्रश्नयन्नाह । य श्रायुष्मन् सुभूते (p. 43, 15) इत्यादि। वाक्यावसाने कथं दानादिपारमितां विनेति शेषः। तथ्यसंरतिसोपानमन्तरेण विपश्चितः । तत्त्वप्रासादशिखरारोहणं नहि युज्यते ॥ इति न्यायादानादिसपरिवारा रत्नचूडाक्ता सर्वधर्मशून्यताऽभ्यसनौयेत्यभिप्रायवान् । परिहारार्थमाह। एवमतदायुष्मञ्छारिपुत्रेत्यादि। प्रत्येकबुद्धदर्शनमार्गानन्तरमैहिकामुत्रिकैर्गुणैर्युक्तो बोधिसत्त्वानां मार्गों वक्तव्य इत्याह। प्रज्ञापारमितार्यशारिपुत्रेत्यादि (p. 44, 1) । प्रज्ञापारमिता बोधिसत्त्वानां दर्शनमार्ग इत्यर्थः । स समासतो लौकिकस्याग्रधर्मस्य समनन्तरमनुपलम्भः समाधिः। प्रज्ञा चात्र ससंप्रयोगा वेदितव्या। प्रभेदतः पुनस्तथैव दःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानशान्तिरन्वयज्ञानम् । एवं समुदये निरोधे मार्गे प्रतिपत्तव्यमित्येते षोडशचित्तक्षणा दर्शनमार्गः। चित्तक्षणः पुनर्जेयज्ञानोत्पत्तिपरिसमाप्तितो ग्राह्यः। केचिद् अदृष्टदृष्टेहुंचार्गस्तच पञ्चदशा क्षणाः। इति वर्णयन्ति। तदयुक्तम्। तथाहि प्रयोगमार्गे दःखसत्याधिपतेर्यस्य धर्मस्य पूर्वविचारणामधिपतिं कृत्वा
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy