SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिवर्तः । रूपाद्यनुत्पादाव्यययोरइयत्वं तस्मात् कारणात् । यथाभाषितस्य न रूपमुंपैतीत्यादिवचनस्यार्थमाजानामि। तथा बोधिसत्त्वोऽप्यनुत्पादस्तस्यापि रूपादिस्वभावत्वात् । भवत्वेवमित्यभ्युपगमे दोषार्थमाह । यदि चेत्यादि । किंशब्दः क्षेपेऽनुत्पादविरुड्वत्वान्नैव चरतीत्यर्थः। यानि दःखानि सत्त्वानां कृतशः प्रयोजनेन प्रत्यनुभवितुमुत्सहते। किमर्थं वा तानि नैवेत्यर्थः। सत्त्वाद्यभावादिति भावः। नाहमि(p. 28, 7)त्यादिनोत्तरमाह। एवं मन्यते । यदि बोधिसत्त्वोऽनुत्पादः। परमार्थतो नैव दुष्करचयां चरतीत्यापद्यते । तदा तत्त्वेन चर्यानुपपत्तेः सिद्धसाध्यता। अथ मंस्त्या तदा नानुत्पादस्तहि बोधिसत्त्वस्तस्योत्पादप्रतिपादनात्तत्कथं चर्याविरुद्धेति । संस्त्यापि दष्करचर्या कथं चर्यत इत्यपि न मन्तव्यमित्याह । नापौत्यादि। दष्करमंज्ञया चरतीत्यत्र दष्करचर्यामिति शेषः । ननु शिरोदानादिदष्करचयां बोधिसत्त्वा एव कुर्वन्तौति कथं न दष्करसंज्ञेति। तत्कस्य हेतोरित्याशङ्कयाह । नहोत्यादि। यस्माद्दुष्करसंज्ञां जनयित्वा न शक्यः सत्त्वानामर्थः कतुं सम्यक्चर्याऽनिष्यत्तेरतो यो दष्करसंज्ञां दानादिचर्यासु करोति स सत्त्वाकरणेन बोधिसत्त्वो न भवतीति भावः । कथं तर्हि शक्यते इत्याह । अपि त्वित्यादि। दानादिषु मात्सर्याद्यभावेन सुकरसंज्ञां सुखसंज्ञां तथा मत्त्वानामन्तिके सामान्येन मात्रादिसंज्ञाविशेषेण वा स्त्रीपुरुषेषु वयसा वन्यूनप्रमाणेषु यथासम्भवं मात्रादिसंज्ञां कृत्वा यदि बोधिसत्त्वश्चयां चरति तदार्थः शक्यते कर्तुमिति भावः। तदेवोपसंहरन्नाह। तस्मादित्यादि
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy