SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ८६ प्रथमपरिवर्तः । सर्वबुवभाषितधर्मधारणाभिप्रायः। कुशलमूलादिनिरपेक्षतया सद्धर्मप्रकाशनम् । बुद्धक्षेत्रपरिशोधनकरधर्माणां तत्रैव परिणामना। सत्त्वार्थकरणाय न जातु चित्खेदापत्तिः। श्रावकप्रत्येकबुद्धमनस्कारादिभिः स्वपरापेक्षया लज्जा चेत्येवं पञ्चधापरिकर्मणा। पूर्ववत् कृता न च बुध्यमानस्वभावपरिकर्मणा तृतीया लोकोत्तरज्ञानावभासकरणात् प्रभाकरौ भूमिरवबुध्यते । तथाचोक्तम् । अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् । बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता ॥५३॥ होरपचाप्यमित्येतत् पञ्चधा मननात्मकम्। इति श्रावकादिमनस्कारविवेकः। उपलम्भयोगेनाप्राप्तबोधेरप्यनिच्छा। प्राप्तेनापि प्रणीतवस्तुनाऽमननता। गम्भौरधर्मक्षान्तिनिध्यानाद्यपरित्यागः। सर्वशिक्षाणामपरित्यजनम्। कामचित्तस्यानुत्पादः। सर्वधर्माणामनभिसंस्कारः। स्वशरीराद्यग्रहणता। कुशलधर्मालम्बनचित्तासङ्कोचः । सर्ववस्त्वमनसिकारश्चेत्येवं परिकर्मणा। पूर्ववद्दशप्रकारेण चतुर्थों सकलशेन्धनदहनचालयोपेतत्वादर्चिष्मती भूमिरभिरुह्यते। तथाचोक्तम् । वनासाऽल्येच्छता तुष्टिधूतसंलेखसेवनम् ॥ ५४॥ शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् । निर्वित्सर्वास्तिसन्त्यागो ऽवलीनत्वानपेक्षते ॥५५॥ इति लाभाद्यर्थं गृहिप्रवजितैः संवासः। श्रावकुलानुपदर्शनम्। जनाकीर्णनगरादि। स्वप्रशंसनपरनिन्दने ।
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy