SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिवर्तः। समूहम् । अभिनिर्मिमौते निर्माणं करोति । अन्तर्धानमित्युपसंहारम् । तदनन्तरोक्तमर्थजातम् । तत् किं मन्यसे किं बुध्यस इति सामान्येन प्रश्नं कृत्वा । अथैवं मन्यस इत्याह । अपि वित्यादि। अपिशब्दः सम्भावनायामेवमित्यर्थे नुशब्दः। तत्र तस्मिन् जनकायमध्ये। केनचिन्मायाकारादिना कश्चिद्देवदत्तादिर्हत आयुषो दुर्बलप्रयोगात् । मृतः सर्वथोच्छेदात् । नाशितः कायस्यापचयप्रयोगात् । अन्तर्हितो ऽदृश्यत्वापादनादिति मन्यसे। तत्त्वतो धर्मिणो ऽसत्त्वादेतत् सर्वं न सम्भवति । यथादर्शनं तु भवत्येवेति भावः। विदिताभिप्रायत्वेनाह। नो हौदमिति। तत्त्वत इति शेषः । प्रसाधितदृष्टान्तार्थमभिमतार्थं योजयन्नाह। एवमित्यादि (p. 21, 7)। विस्तरेण निर्दिश्यैवमुपसंहरन्नाह । स चेदित्यादि। इममित्यनन्तरम् । एवमिति संशतिपरमार्थसत्यानतिक्रमण। यदक्तं कियतेति तस्य परिहारादियतेति वचः। एतदक्तमियता करुणादिसम्भारेणापि योगान्महासन्नाहसन्नदव्यपदेश इति। विदर्शनया शून्यतालम्बनेन श्रावकादिबोधौ पातादतोऽनन्तरं युगनवसम्भारमाह। यथाहमित्यादिना (p. 21, 13)। भगवतो भाषितस्येति। धर्मतैषा सुभूते धर्माणामित्यादि। वतशब्दोऽवधारणे। एवं मन्यते येन प्रकारेण मायाधर्मस्य व्यापित्वेन भगवतो भाषितस्य धर्मषेत्यादेरर्थमाजानामि। तेन प्रकारेण मायाधर्मतानभिनिवृत्तेरसन्नाहसन्नत एवायं बोधिसत्व इति । अविपरीतत्वेनाभ्युपगमादाह। एवमेतदित्यादि। ननु विदर्श
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy