SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिवर्तः । सत्यप्रतिवेधानुकुलानि चतुर्निर्वेधभागौयानि लौकिकभावनामयानि वक्तव्यानि । श्रावकाद्युष्मादिभ्यश्चैषाम नित्यादिलक्षणवस्त्वालम्बनविशेषाद्धर्मदर्शनप्रतिपक्षत्वेना नभिनिवेशाद्याकारविशेषाद्यानचयाधिगमहेतुत्वविशेषादु पायकौशलकल्याणमिचलक्षणसम्परिग्रहविशेषाद्विशेषो इति वक्तव्यः । तथा संक्लेशवस्त्वधिष्ठानः प्रतिपक्षवस्त्वधिष्ठानचेति द्विविधो ग्राह्यविकल्पः । द्रव्यसत्पुरुषाधिष्ठानः प्रज्ञप्तिसत्पुरुषाधिष्ठानश्चेति द्विविधो ग्राहकविकल्प वक्ष्यमाणमूर्द्धाभिसमयसङ्गृहीतदर्शनभावनामार्गप्रहातव्यैचतुर्भिर्विकल्पैर्यथासङ्ख्यं संक्लेशभाज्ज्येतानि निर्वेधभागौयानौति वक्तव्यम् । तथा यथोक्तविकल्प संयोगश्च भजतां मतां प्रत्येकमेषां मृदुमध्याधिमात्रभेदेन विशिष्टता च वक्तव्येति पञ्चविधो विशेषः । श्रावकादौनामुषमादिचतुर्विधकुशलमूलं रूपणादिलक्षणवस्त्वात्मकचतुः सत्यालम्बनमात्मदर्शनप्रतिपक्षत्वेनानित्यादिभिराकारैः स्वयानाधिगमहेतुभूतं सम्परिग्रहरहितं स्वबोधिपरिपन्थभूतश्चतुर्विधो विकल्पो न भवतीति कृत्वा तेन संसृष्टमप्यसंसृष्टमुत्पद्यत इति व्यवस्थाप्यते । यतस्तथा चोक्तम् । आलम्बनत आकाराचेतुत्वात्सम्परिग्रहात् । चतुर्विकल्प संयोगं यथास्वं भजतां सतां ॥ २६ ॥ श्रावकेभ्यः सखतेभ्यो बोधिसत्त्वस्य तायिनः । ४४ मृदुमध्यादिमाचाणामूष्मादीनां विशिष्टता ॥ २७ ॥ इति, तच मृदुन ऊमगतकुशलमूलस्यालम्बनार्थमाह ॥ पुनरित्यादि पुनरपरमिति (p. 5, 11) प्रकारान्तरेण प्रज्ञा
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy