SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रह यस्यौदार्ययुता प्रहृष्टसुमना अद्यापि विद्यावती धत्ते संततिरुन्नतिं भगवतो वीरप्रभोर्गोरिव ॥ ३ ॥ श्रीसुस्थितः सुप्रतिबुद्ध एतौ सूरी अभूतां तदनुक्रमेण । याभ्यां गणोऽभूदिह कोटिकाह चंद्रार्यमभ्यामिव सुप्रकाशः ॥ ४॥ तत्राभूद्वज्रिणां वंद्यः श्रीवर्षिगणाधिपः । मूलं श्रीवज्रशाखाया गंगाया हिमवानिव ॥ ५॥ तत्पट्टांवरदिनमणिरुदितः श्रीवज्रसेनगुरुरासीत् । नागेंद्र-चंद्र-निवृति-विद्याधर-संज्ञकाश्च तच्छिष्याः॥६॥ स्वस्वनामसमानानि येभ्यश्चत्वारि जज्ञिरे । कुलानि काममेतेषु कुलं चान्द्रं तु दिद्युते ॥ ७ ॥ भास्करा इव तिमिरं हरंतः ख्यातिभाजनम् । भूरयः सूर यस्तत्र जज्ञिरे जगतां मताः ।। ८ ।। बभूवुः क्रमतस्तत्र श्रीजगचंद्रसूरयः। यैस्तपाविरुदं लेभे वाणसिद्धयर्क १२८५ वत्सरे ॥९॥ क्रमेणास्मिन् गणे हेमविमलाः सूरयोऽभवन् । तत्पट्टे सूरयो ऽभूवनानंदविमलाभिधाः ॥ १० ॥ साध्वाचारविधिः पथः शिथिलतः सम्यश्रियां धाम यै रुदभ्रे स्तनसिद्धिसायकसुधारोचिनिभे १५८२ नेहसि । जीमूतैरिव वैर्जगत्पुनरिदं तापं हरद्भिशं संश्रीकं विदधे गवां शुचितमैः स्तोमैः रसोल्लासिभिः ॥११॥ पद्माश्रयैरलमलंक्रियते स्म तेषां प्रीणन्मनांसि जगतां कमलोदयेन ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy