SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७.४ नित्योत्सवः जपो जल्प: शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ पिता माता भ्राता गुरुरथ सुहृद्वान्धवजनः प्रभुस्तीर्थं कर्माविकलमिह चामुत्र च हितम् । विशुद्धा विद्या वा पदमपि च तत्प्राप्यमसि मे त्वमेव श्रीमातः स्वपिमि गतशङ्कः सुखतमः ॥ दृशा द्राघीयस्या दरदळितनीलोत्पलरुचा दवीयांसं दीनं रूपय कृपया मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता वने वा ह वा समकरनिपातो हिमकरः ॥ हे सद्रूपिणि हे चिदर्चिरुदये हे कामराजप्रिये भण्डासुरद्भुितनिधे हेऽनङ्गसञ्जीविनि । विश्वप्रसवित्र हे सकरुणे हे दीनरक्षामणे हे श्रीललिताम्ब हे परशिवे मां पाहि डिम्भं निजम् ॥ नमो हेमाद्रिस्थे शिवसति नमः श्रीपुरगते नमः पद्माटव्यां कुतुकिनि नमो रत्नगृहगे । नमः श्रीचक्रस्थेऽखिलमयि नमो बिन्दुनिये नमः कामेशाङ्कस्थितिमति नमस्तेऽम्ब ललिते ॥ जय जय जगदम्ब भक्तवश्ये जय जय सान्द्रकृपावशान्तरङ्गे । जय जय निखिलार्थदानशौण्डे जय जय हे ललिताम्ब चित्सुखाब्धे || षडङ्गदेवता नित्या दिव्याद्योघत्रयीगुरून् । नमाम्यायुधदेवीश्च शक्तीश्चावरणस्थिताः ॥ पद्मवत्यम्बिकाऽधीनवामाङ्काय शिवात्मने । भासुरानन्दनाथाय मम श्रीगुरवे नमः ॥ 1 नमः सन्मणिगृहे - अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy