SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः--श्रीक्रमः मन्दिरार्चा अथ तत्र चक्रराजे मन्दिरपूजां कुर्यात् । यथा ऐं ह्रीं श्रीं अमृताम्भोनिधये नमः, -रत्नद्वीपाय, नानावृक्षमहोद्यानाय, कल्पवाटिकायै, सन्तानवाटिकाय, हरिचन्दनवाटिकायै, मन्दारवाटिकाय, पारिजातवाटिकायै, कदम्बवाटिकायै, पुष्परागरत्नप्राकाराय, पद्मरागरत्नप्राकाराय, गोमेदकरत्नप्राकाराय, वज्ररत्नप्राकाराय, वैडूर्यरत्नप्राकाराय, इन्द्रनीलरत्नप्राकाराय, मुक्तारत्नप्राकाराय, मरकतरत्नप्राकाराय, विद्रुमरत्नप्राकाराय, माणिक्यमण्टपाय, सहस्रस्तम्भमण्टपाय, अमृतवापिकाये, आनन्दवापिकायै, विमर्शवापिकायै, बालातपोद्गाराय, चन्द्रिकोद्गाराय, महाशृङ्गारपरिघायै, महापद्माटव्य, चिन्तामणिमयगृहराजाय, पूर्वान्नायमयपूर्वद्वाराय, दक्षिणाम्नायमयदक्षिणद्वाराय, पश्चिमाम्नायमयपश्चिमद्वाराय, उत्तराम्नायमयोत्तरद्वाराय, रत्नप्रदीपवलयाय, मणिमयमहासिंहासनाय, ब्रह्ममयैकमञ्चपादाय, विष्णुमयैकमञ्चपादाय, रुद्रमयैकमञ्चपादाय, ईश्वरमयैकमञ्चपादाय, सदाशिवमयैकमञ्चफलकाय, हंसतूलतलिमाय, हंसतूलमहोपधानाय, कौसुम्भास्तरणाय, महावितानकाय,-ऐं ह्रीं श्रीं महायवनिकायै नमः ॥ इति चतुश्चत्वारिंशन्मन्दिरमन्त्रैः तत्तदखिलं भावयन् कुसुमाक्षतैरभ्यर्चयेत् । एवमेव सर्वत्र अर्चने तत्तद्भावना श्रेयसी ॥ वर्धनीपात्रनिधानादि दीपप्रज्वालनान्तम् ततो जलपूर्ण वर्धनीपात्रं स्ववामभागे, गन्धपुप्पाक्षतादिकां सपर्यासामग्री समग्रां स्वदक्षदेशे, क्षीरकलशादिकं देव्याः पश्चाद्भागे च निधाय, दीपानभितः प्रज्वालयेत् । असम्भवे तु दीपौ दीपं वा । इह च विशेषः घृतदीपो दक्षिणे स्यात्तैलदीपस्तु वामतः । सितवर्तियुतो दक्षे वामतो रक्तवर्तिकः ॥ दक्षवामभागौ देव्या एव ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy