SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः-श्रीक्रमः १ कराङ्गन्यासादिकं कृत्वा जपं वक्ष्यमाणमन्त्रेण श्रीदेव्यै समर्प्य आचम्य मण्डलस्थं तीर्थ विसर्जनमुद्रया सूर्ये विसृजेत् ॥ इयमेकैव प्रातःसंध्याऽनुष्ठेया सूत्रकारमते नान्या माध्याह्निकादयः ॥ अथ सपर्यासाधनानि सम्पाद्य ब्रह्मयज्ञादि निवर्तयेत् इति शिवम् ॥ आहिकप्रकरणं प्रथम समाप्तम् सपर्याप्रकरणम् यागमन्दिरप्रवेशः अथ मौनवान् यागमन्दिरमागत्य, गोमयेनोपलिप्तद्वारस्थण्डिलाभ्यन्तरस्य रङ्गवल्ल्याद्यलङ्कृतस्य धूपधूपितस्य बद्धवितानकुसुमस्रजो मण्टपस्य पश्चिमद्वारे तिष्ठन् दक्षवामशाखयोः ऊर्ध्वभागे च क्रमेण ऐं ह्रीं श्रीं भद्रकाल्यै नमः, ३ भैरवाय नमः, ३ लम्बोदराय नमः ॥ इति तिस्रो द्वारदेवताः सम्पूज्य, अन्तः प्रविष्टश्चाचम्य देशकालौ सङ्कीर्त्य मम श्रीललिताप्रसादसिद्धयर्थं यथाशक्ति क्रमं निर्वर्तयिष्ये इति सङ्कल्प्य, विधृतारुणवसनाभरणानुलेपनमाल्यः, सङ्कल्पमात्रकल्पिताकल्पो वा, ताम्बूलेन जातीपत्रफललव.लाकर्पूराख्यपञ्चतिक्तेन वा सुरभिळवदनः समास्तीर्णे ऊर्णावसनमृदुनि शुचिनि बालातृतीय बीजेन द्वादशवारमभिमन्त्रिते मूलमन्त्रोक्षिते चित्रकम्बळाद्यन्यतमे आसने ऐं ह्रीं श्रीं आधारशक्तिकमलासनाय नमः इति पुप्पाक्षतैरभ्यर्च्य प्राङ्मुख उदङ्मुखो वा पद्मासनाद्यन्यतमेन आसनेन उपविशेत् ॥ शकुलार्णवे यदाशाऽभिमुखो मन्त्री त्रिपुरां परिपूजयेत् । देवीपश्चात्तदा प्राची प्रतीची त्रिपुरापुरः ।। इति पूज्यपूजकयोः मध्यं प्रतीचीति नियमः ॥] 'बीजहंसमन्त्राभ्यां-अ. 'अयं भागः (श्री) कोश एव.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy