SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः चिद्विमर्श: तेन च नियमितपवनमन:स्पन्दः आमूलाधारं आ च ब्रह्मरन्धमुद्द्वतां तटिलतासदृशाकृतिं तरुणारुणपिञ्जरतेजसं ज्वलन्तीं सर्वकारणभूतां परां संविदं विचिन्त्य ચૂંટ हृदा मूलावृत्ति: तद्रश्मिनिकरभस्मितसकलकश्मलजालो मूलं मनसा दशवारमावर्त्य रश्मिमालास्मरणम् वक्ष्यमाणान् रश्मिमालामन्त्रांश्च एकवारमावर्त्तयेत् । रश्मिस्रुगावर्तनं तु त्रैवर्णिकविषयम् ॥ यदि प्रबोधसमकालमावश्यकोपाधिस्तदा तन्निरसनपूर्वमुक्तमनुतिष्ठेत् ॥ इति काव्यकृत्यम् || अजपा गायत्रीभावनम 1 [इति देव प्रार्थ्य गुरूपदेशेन ज्ञातं सहजसिद्धं अजपाजपं निवेदयेत् । मया पूर्वेद्युरजपां षट्छताधिक - एकविंशतिसाहत्रिकां निःश्वासोच्छ्वासरूपिणीं मूलाधारादिब्रह्मरन्ध्रान्तसप्तचक्रनिवासिनीभ्यो देवताभ्यो निवेदयामीति सङ्कल्प्य हंसस्सोऽहं इति मन्त्रं पञ्चविंशतिवारं जपित्वा तदुपरि निःश्वासोच्छ्रासादिकं गायत्रीरूपं भावयित्वा ॥ प्रातः प्रभृतिसायान्तं सायादिप्रातरन्ततः । यत्करोमि जगद्योने तदस्तु तव पूजनम् ॥] भूप्रार्थनादि मुखक्षालनान्तम् समुद्रवसने देवि पर्वतस्तनमण्डिते । विष्णुपत्नि नमस्तुभ्यं पादचारं क्षमस्व मे 11 1 [] एतचिह्नमध्यगतो भाग: (श्री. अ१) पुस्तकयोरेव दृश्यते.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy