SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः देवतोद्वासनं चाथ विशेषार्थ्यविसर्जनम् । सङ्क्षपार्चाविधिस्तद्वत् क्रत्वर्थनियमास्ततः ॥ श्रीचक्रलेखनोपायस्तत्प्रतिष्ठाविधिस्तथा । होमादिप्रक्रियास्तत्तद्विधिज्ञानप्रयोजनाः ॥ सन्तु पद्धतयो लोके कल्पसूत्रानुगाः पराः । अनन्यसव्यपेक्षयं प्रायेणेति विभाव्यताम् ।। कादिहाद्योः पञ्चदश्योरियं साधारणी मता। श्रीषोडश्या विशेषस्तु तत्र तत्र निरूपितः ॥ सर्वश्रीक्रममन्त्रेषु त्रितार्या योजनं पुरः । ऐं ह्रीं श्रीमित्यात्मिकायास्सा च तत्पूर्वकेषु न ॥ श्रीमान् प्रोक्तगुणो लब्ध्वा दीक्षामुक्तगुणाद्गुरोः । इष्ट्वा महागणपतिमारभेत श्रियः क्रमम् ॥ आहिकप्रकरणम् गुरुध्यानम् मुहूर्ते ब्राह्म उत्थाय निषण्णः शयने निजे । अपलापाय पापानामादावेवं समाचरेत् ।। स्वब्रह्मरन्ध्रगाम्भोजकर्णिकापीठवासिनम् । शिवरूपं श्वेतवस्त्रमाल्यभूषानुलेपनम् ॥ दयाऽऽदृष्टिं स्मेरास्यं वराभयकराम्बुजम् । वामाङ्कगतया पीतवपुषाऽरुणवेषया ॥ पद्मवत्या वामकरे शक्त्या दक्षभुजावृतम् । गौर श्रीभासुरं नाथं सानन्दं चिन्तयेत् सुधीः ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy