SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ तरुणोल्लासो द्वितीयः-गणपतिक्रमः सुरासुरौघयोस्सदा जयप्रदं भयप्रदं समस्तविघ्नघातिनं स्वभक्तपक्षपातिनम् ॥ कराम्बुजात्तकङ्कणः पदाब्जकिङ्किणीगणो __ गणेश्वरो गुणार्णवः फणीश्वराङ्गभूषणः । जगत्त्रयान्तरायशान्तिकारकोस्तु तारको भवार्णवादनेकदुहाच्चिदेकविग्रहः ॥ यो भक्तिप्रवणः परावरगुरोस्स्तोत्रं गणेशाष्टकं शुद्धस्संयतचेतसा यदि पठेन्नित्यं त्रिसन्ध्यं पुमान् । तम्य श्रीरतुला स्वसिद्धिसहिता श्रीशारदा सारदा स्यातां तत्परिचारिके किल तदा काः कामनानां कथाः ॥ सुवासिनीपूजा ततः श्रीक्रमे वक्ष्यमाणेन क्रमेण सुवासिनीपूजनहविःप्रतिपत्तिदेवतोद्वासनादिशेषं समापयेत् । अत्र च सुवासिन्या साकं वटुकार्चनमपि । तत्र मन्त्रः-३ वं वटुकाय नमः इति । मम निर्विघ्नं मन्त्रसिद्धिर्भूयादिति तौ प्रति प्रार्थनायां तथाऽस्त्विति तत्प्रतिवचनम् । मूलान्ते अमुकतत्त्वं शोधयामि नमः स्वाहेति तत्त्वत्रयशोधनं चेति विशेषः ॥ पुरश्चरणविधिः एवं नित्यक्रम प्रवर्तयन् श्यामाक्रमे वक्ष्यमाणेन विधिना अष्टाविंशतिसहस्रसह्यापुरश्चरणजपः । प्रकृते कलियुगत्वात् तच्चतुर्गुणितम् । प्रथमेऽहनि सहस्रं ततः प्रत्यहं त्रिसहस्रसङ्ख्यं च कृत्वा जपदशांशहोम-तद्दशांशतर्पण-तद्दशांशब्राह्मणभोजनानि विदध्यात् । होमद्रव्याणि च मोदकैः पृथुकैर्लाजैः सक्तुभिश्चक्षुपर्वभिः । नारिकेलॅस्तिलैः शुद्धैः सुपक्कैः कदळीफलैः ॥ . इत्युक्तान्यष्टौ । एतेषां प्रमाणं तु--मोदका अखण्डिता ग्रासमिताः । पृथुकलाजसक्तवो मुष्टिपरिमिताः । इक्षुप्रमाणं श्लोक एवोक्तम् । नारिकेळं अष्टधा खण्डितम् । तिलाः 61
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy