SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ तरुणोलासो द्वितीयः - गणपतिक्रमः तर्पणजपस्तोत्राणि अथ प्रक्षाळितपाणिपाद आचान्त आगत्य देवं मूलेन त्रिधा सन्तर्प्य पुप्पाञ्जलिं दत्वा प्रदक्षिणनुतीर्विधाय जपेत् — अस्य श्रीमहागणपतिमहामन्त्रस्य गणकऋषये नम इति शिरसि । गायत्रीछन्दसे नम इति मुखे । महागणपतये देवतायै नम इति हृदये । गं बीजाय नम इति गुह्ये । स्वाहाशक्त्यै नम इति पादयोः । ॐ कीलकाय नम इति नाभौ । मम अभीष्टसिद्धयै विनियोगाय नम इति करसम्पुटे च न्यस्य । उक्तैः षडङ्गमन्त्रैः अङ्गुष्ठादिषु हृदयादिषु च न्यासं विधाय । पूर्वोक्तभङ्गया ध्यात्वा । श्यामाक्रमे वक्ष्यमाणप्रकारेण संस्कृतां मालामादाय श्रीक्रमे वक्ष्यमाणविधिना मूलमष्टोत्तरशतवारानावर्त्य पुनरपि न्यासादि कृत्वा गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा || इति सामान्यादकेन जपं देवस्य दक्षको समर्पितं विभाव्य स्तुवीत । यथा - 1 श्रीभगवानुवाच । गणेशस्य स्तवं वक्ष्ये कलौ झटिति सिद्धिदम् । न न्यासो न च संस्कारो न होमो न च तर्पणम् ॥ 2 न मार्जनं च पञ्चाढ्यं सहस्रजपमात्रतः । सिध्यत्यर्चनतः पञ्चशतब्राह्मणभोजनात् ॥ अम्य श्रीगणपतिस्तोत्रमालामन्त्रम्य भगवान् श्रीसदाशिव ऋषिः । उष्णिक् छन्दः । श्रीगणपतिर्देवता । श्रीगणपतिप्रसाद सिद्धयर्थे जपे विनियोगः । ध्यानम् चतुर्भुजं रक्ततनुं त्रिणेत्रं पाशाङ्कुशौ मोदकपात्रदन्तौ । करैर्दधानं सरसीरुहस्थं गणाधिनाथं शशिचूडमीडे ॥ इति ॥ पादमाचान्तमागत्य – इति पाठः बहुषु कोशेषु दृश्यते. पञ्चास्य-अ. ३१ 3 अष्टि: - ब१, ब२, बई, भ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy