SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ स्कान्दे तस्य माला भगवतः परमप्रीतिकारिणी । शुष्का पर्युषिता वाऽपि न दुष्टा भवति कचित् ॥ तस्येत्युपक्रमात् दमनकस्य । भगवत इत्युपलक्षणं भगवत्या अपि ॥ पर्युषितमात्रस्यापि प्राह्यत्वम् प्रयोगपारिजाते अनवस्थोल्लासः सप्तमः साधारणक्रमः यद्वा पर्युषितैश्चापि पुष्पाद्यैरविकारिभिः । गन्धोदकेन चैतानि त्रिः प्रोक्ष्यैव प्रपूजयेत् ॥ इति ॥ अथवा बिल्वतुळसीपत्रैर्वकुळपुष्पकैः । शुष्कैरपि पूजयेत् . ॥ इति ॥ सर्वस्यैतस्यापवादः ग्रन्थान्तरे— देवीपूजा सदा कार्या जलजैः स्थलजैरपि । विहितैर्वा निषिद्धैर्वा भक्तियुक्तेन चेतसा सर्वपुष्पैः सदा पूजा विहिताविहितैरपि । कर्तव्या सर्वदेवानां भक्तिरेवात्र कारणम् ॥ इति ॥ सूत्रकृता इतोऽपि विस्तारो ऽन्यत्र द्रष्टव्यः इति दिक् ॥ २२३ निबन्धाध्ययनमहिमा एतन्निबन्धाध्ययनेनापि सर्वदेवतोपास्तिफलं भवति । तदुक्तं भगवता य इमां दशखण्ड महोपनिषदं महात्रैपुर सिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति । यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इती श्रूय इत्युपनिषदिति शिवम् ॥ इति ॥ 1
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy