SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ अनवस्थोल्लासः सप्तमः-साधारणक्रमः २२१ २२१ बोपदेवः बिल्वापामार्गजातीतुळसिशमिशताकेतकीभृङ्गवूर्वा___ कुंदांभोजाहिदर्भा मुनितिलतगरा ब्रह्मकल्हारमम्लः । चम्पा चारातिकुम्भी दमनमरुवका बिल्वतोहानि शस्ताः त्रिंशस्त्र्यकार्यरीशोदधिनिधिवसुभू भूयसा भूय एवम् ॥ त्रिंशादयो बिल्वप्रभृतीनां दिनसङ्ख्यावाचकाः । मुहुरावाश्च ॥ विहितनिषिद्धानि पाटला च शमीपत्रं दुर्गायास्तु हिताहितम् ॥ विहितनिषिद्धमित्यर्थः ॥ तिलकं मालती बाणस्तुळसी भृङ्गराजकम् । तमालं शिवदुर्गाथै निषिद्धविहितं भवेत् ॥ बाणो भाषया करसाला ॥ जयः काशः श्वेतपद्मं श्वेतमन्दारकं तथा । दुर्गायाश्चैव विष्णोश्च निषिद्धविहितं भवेत् ॥ जयः जयन्ती ॥ अगस्तिरतिमुक्तं च तिरीटं च हरे हरौ । अपामार्गस्य पुष्पं च दुर्गायाश्च हिताहितम् ॥ अतिमुक्तो माधवीलता । तिरीटं लोध्रम् ॥ निषिद्धानि अक्षतानकंधुत्तूरौ विष्णो वार्पयेत् सुधीः ॥ अक्षतनिषेधः सालग्रामपर एव न तु मूर्त्यामिति हेमाद्रिः ॥ बन्धूक केतकी कुन्दं केसरं कुटजं जपाम् । . शकरे नार्पयेत् विद्वान् मालती यूधिकामपि ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy