SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१५. अनवस्थोल्लासः सप्तमः-साधारणक्रमः मन्त्राणां संस्काराः लिजत्लादिकंपादोषशान्त्यै निरूप्यते । संस्कारदशकं सप्तकोटिमन्त्रगणे क्रमात् ॥ जननं जीवनं पश्चात् ताडनं बोधनं तथा । अथाभिषेको विमलीकरणाप्यायने पुनः । तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥ जननं यथा भूर्जपत्रे लिखेत् सम्यक् त्रिकोणं रोचनादिभिः । वारुणं कोणमारभ्य सप्तधा विभजेत् समम् ॥ एवमीशामिकोणाभ्यां जायन्ते तत्र योनयः । नववेदमितास्तत्र विलिखेन्मातृकाः क्रमात् ॥ अकारादिहकारान्तामीशादिवरुणावधि । देवीं तत्र समावाह्य पूजयेच्चन्दनादिभिः ॥ ततः समुद्धरेन्मन्त्रं जननं तदुदीरितम् ॥ दीपनं यथा जपो हंसपुटस्यास्य सहस्रं दीपनं स्मृतम् ॥ (हंसः+मन्त्रः+सोऽहम् ॥) बोधनं यथा नभोवहीन्दुयुक्ता/ सम्पुटस्य जपो मनोः । सहस्रपञ्चकमितो बोधनं तत् स्मृतं बुधैः ॥ (हरूं+मन्त्रः+हम् ॥) ताडनं यथा सहस्रं प्रजपेदस्त्रपुटितं ताडनं तु तत् ॥ (फट+मन्त्रः+फट् ॥) 1 हंसंपु-ब२, १३, श्री.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy