SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः अस्यार्थः-साध्यवर्णान् स्वरव्यञ्जनरूपेण पृथक् पृथक् तान् षट्कलाद्यकैः गणितान् तथा साधकनामाक्षरान् युग्मायकैः गणयित्वा, अष्टसङ्ख्याभिः हृत्वा उभयोश्च साध्यसाधकयोः अधिकं ऋणं शेषं धनं ज्ञात्वा मन्त्रं दद्यात् ॥ यदा मन्त्रश्चेदृणी भवति तदा मन्त्रः शुभदायको भवति । धनी चेन्मन्त्रे यद्यधिकाङ्कः स्यात् तदा मन्त्र जपेत् सुधीः ।। समेऽपि च जपेन्मन्त्रं न जपेत्तु ऋणाधिकम् । शून्ये मृत्युं विजानीयात् तस्माच्छून्यं परित्यजेत् ॥ रुद्रयामळे इन्द्रक्षनेत्ररविपञ्चदशर्तुवेद वयायुगाष्टनवभिर्गणितांश्च साध्यान् । दिग्मुर्गिरिः[१]श्रुतिगजाभिमुनीषुवेद षड्वह्निभिस्तु गणितानथ साधकार्णान् ॥ नामाज्झलादित्यादिवचनं विष्णुविषयम् , रामार्चनचन्द्रिकोद्धृतत्वात् इति केचित् । वस्तुतस्तु-पूर्वस्यैव विचारणं हृतशेष इन्द्रःर[?] मित्यादिनामाक्षरमारभ्य यावत् साधकाक्षरं भवेत् तावत्सङ्ख्यं सप्तगुणं कृत्वा त्रिभिः हरेत् । यद्वा साध्यनामाद्विगुणितं साधकेन समन्वितम् । अष्टभिश्च हरेच्छेषं तदन्यद्विपरीतकम् ॥ अस्यार्थः-साध्यनामाद्विगुणितं साधकाक्षरसमन्वितम् । अष्टभिश्च हरेत्तदन्यत् । साधकनामानं स्वरव्यञ्जनभेदेन द्विगुणीकृत्य साध्येन युक्तं कृत्वा अष्टमिः हरेत् ॥ इति ऋणीधनीचक्रम् ॥ इति कुलाकुलचक्रविचारः ॥ कुलाकुलचक्रविचारापवादः अथ तदपवादः--कुलार्णवसोमसिद्धान्तरत्नसागररुद्रयामळकुलमूलावतारागस्त्यसंहितासिद्धान्तशेखरादिवचनगतोऽपुनरुक्तः संगृह्यते एकाक्षरे तथा कूटे त्रैपुरे स्त्रीसमर्पिते । स्वप्नलब्ध नृसिंहार्कवराहाणां मनुष्वपि ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy