SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०७ अनवस्थोल्लासः सप्तमः-साधारणक्रमः मातङ्गी सुन्दरी श्यामा ताराकर्णपिशाचिनी । शबर्येकजटा वामा काळी नीलसरस्वती ॥ त्रिपुरा काळरात्रिश्च कलाविष्टप्रदा इमे ॥ इति ॥ गुरुशिष्ययोः वर्णाश्रमादिव्यवस्था नारदपाञ्चरात्रे ब्राह्मणः सर्वकालज्ञः कुर्यात् सर्वेष्वनुग्रहम् । तदभावे द्विजश्रेष्ठः शान्तात्मा भगवन्मयः ॥ क्षत्रविद्शूद्रजातीनां क्षत्रियोऽनुग्रहक्षमः । क्षत्रियस्यापि च गुरोरभावादीदृशो यदि ॥ वैश्यः स्यात्तेन कार्यों वै द्वये नित्यमनुग्रहः । सजातीयेन शूद्रेण तादृशेन महामते ॥ अनुग्रहाभिषेकौ च कायौं शूद्रस्य सर्वथा । वर्णोत्तमेऽथ च गुरौ सति वाऽपि श्रुतेऽपि वा ।। स्वदेशतोऽथवाऽन्यत्र नेदं कार्य शुभार्थिना । क्षत्रविट्शूद्रजातीयः प्रातिलोम्यं न दीक्षयेत् ॥ इति ॥ रुद्रयामळे न पत्नी दीक्षयेत् भर्ता न पिता दीक्षयेत् सुताम् । न पुत्रं च तथा भ्राता भ्रातरं नैव दीक्षयेत् ॥ इति ॥ योगिनीतन्त्रे निर्वीर्य तु पितुर्मन्त्रं तथा मातामहस्य च । सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥ इति ॥ कनिष्ठस्य स्वापेक्षया न्यूनवयस्कस्य यस्य कस्यापि ॥ गणेशविमर्शिन्याम्प्रमादाच्च तथाऽज्ञानात् पितुर्दीक्षां समाचरन् । प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् ॥ इति ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy