SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०० नित्योत्सवः अर्घ्यशोधनम् श्रीक्रमोक्तेन क्रमेण सामान्यविशेषा आसादयेत् । अत्र चोभयोरप्यर्ष्ययोः प्रवेशभङ्गन्याऽन्तरन्तश्चतुरश्रादिबिन्द्वन्तमण्डलकरणम्, ६ अं आत्मतत्त्वाय आधारशक्तये वौषडित्याधारस्थापनम्, ६ उं विद्यातत्त्वाय पद्मासनाय वौषट् इति पात्रनिधानम्, ६ मं शिवतत्त्वाय सोममण्डलाय नमः इति शुद्धजलपूरणम्, ऐं ह्रीं श्रीं ऐं क्लीं सौः ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् । आपूरितं महापात्रे पीयूषं अर्घ्यमावह ॥ इति क्षीरपूरणम्, तत्तद्देवताषडङ्गं, उक्तषडङ्गं वा, मूलेन दशधा अभिमन्त्रणम्, चतुर्नवतिमन्त्राभिमन्त्रणाभावश्चेति विशेषः । अथ विशेषार्घ्यबिन्दुभिः सम्प्रोक्ष्य वरिवस्यावस्तूनि, यन्तोद्धारः उपलिप्तायां भुवि क्षीरमिश्रेण सिन्दूरादिना बिन्दुत्रिकोणषट्कोणाष्टदळचतुर्दळचतुरश्रात्मकं चक्रं विलिख्य विलेख्य वा, चामीकररजतपञ्चलोहरत्नस्फटिकाद्युत्कीर्ण वा रक्तचन्दनादिनिर्मिते पीठे निवेश्य, ६ अमुकयन्त्रस्य प्राणा इह प्राणाः, ६ अमुकयन्त्रस्य जीव इह स्थितः, ६ अमुकयन्त्रस्य सर्वेन्द्रियाणि, ६ अमुकयन्त्रस्य वाङ्मनःप्राणाः इहायान्तु स्वाहा इति यन्त्रप्राणप्रतिष्ठां विदध्यात् । इह मन्त्रे तत्तद्देवतानामपदोहज्ञापकममुकेतिपदं ज्ञेयम् । अथ ६ आधारशक्तिकमलासनाय नमः इति मन्त्रेण तत्र पीठे पुष्पाञ्जलिं समर्प्य ॥ चक्रे प्रधानदेवतायाः तदंगदेवतानां च पूजा स्वहृदि तत्तद्देवतां ध्यात्वा, ६ अमुकायै लं पृथिव्यात्मकं गन्धं कल्पयामि नमः इत्यादि सं सर्वात्मकं ताम्बूलं इत्यन्तषडुपचारैरुपचर्य, ततस्तां देवतां भक्तानुग्रहात्तेजोरूपेण परिणतां ब्रह्मरन्ध्रं प्राप्य वहन्नासापुटद्वारा बहिर्निर्गतां कुसुमगर्भिते अञ्जलौ सन्निधाय मूर्तिमतीं च मूलेन बिन्दौ आवास, " आवाहिता भव ” इत्यादिरीत्या यथालिङ्गं आवाहनसंस्थापनसन्निधापनसन्निरोधनसम्मुखीकरणाव
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy