SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः श्री उमानन्दनाथविरचितः आरम्भोल्लासः प्रथमः-दीक्षाक्रमः भूमिका नत्वा नाथपरम्परां शिवमुखां विघ्नेश्वरं श्रीमहा राज्ञी तत्सचिवां तदीयपृतनानाथां तदन्तःपराम् । एषामावृतिदेवताः परिचितान् रश्मिम्रजानिर्जरान वीरांश्च प्रणये निवन्धनमिदं नाम्नाऽपि नित्योत्सवम् ।। अन्तेवसता शम्भोरवतारेणाच्युतम्य षष्ठेन । प्रकृतयति कल्पसूत्रं प्रोक्तं रामेण यत्र गदितोऽर्थः ।। काश्याश्चोळान् समागत्य कावेर्यऋविहारिणा । नाथेन भासुरानन्दनाथेनाम्मीह योजितः ॥ यम्यादृष्टो नास्ति भृमण्डलांशो यम्यादासो विद्यते न क्षितीशः । यम्याज्ञातं नैव शास्त्रं किमन्यैः यस्याकारः सा परा शक्तिरेव ॥ भृगुरामसूत्रजालकभग्नप्रसरम्य मे द्विजस्येह । ग्रन्थिविमोकधुरीणं गुरुचरणस्मरणमेव मार्गकरम् ॥ आरम्भ-तरुण-यौवन-प्रौढ-तदन्तोन्मनानवस्थाऽऽरव्यैः । सूत्रोदितैस्तु सप्तभिरुल्लासैराश्रितेह विश्रान्तिः ।।
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy