SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ नित्योत्सव : प्रकाशरूपिणीपराभट्टारिकाश्रीपादुकां पूजयामि तर्पयामि नमः, सौः औ विमर्श - रूपिणीपराभट्टारिकाश्रीपादुकां पूजयामि तर्पयामि नमः, सौ: : प्रकाशविमर्शरूपिणीपराभट्टारिकाश्रीपादुकां पूजयामि तर्पयामि नमः, इति त्रिभिः मन्त्रैः क्रमेण देव्या मूलाधारहृन्मुखेष्वभ्यर्च्य सौः महाप्रकाशविमर्शरूपिणीपराभट्टारिकाश्रीपादुकां पूजयामि तर्पयामि नमः इति मन्त्रेण देवीं दशवारं सन्तर्प्य ॥ १९४ देव्यां अखिलतत्वहोमभावनम् तामेव कालाग्निकोटिदीप्तां ध्यात्वा, तस्यां सौः पृथ्वीं जुहोमि स्वाहा, सौः अपो जुहोमि स्वाहा, इत्यादिरीत्या प्राम्विलाप्य हृदये स्थापितं षट्त्रिंशत्तत्त्वकदम्बकं पृथक् पृथक् मनसा जुहुयात् ॥ इह क्रमे अयमेव होम: ॥ गुर्वोषत्रययजनम् ततो मूलपूर्विकयोक्तया श्रीगुरुपादुकया मस्तकस्थं श्रीगुरुं त्रिः सम्पूज्य पुनश्चिदग्निमुद्दीप्तं विभाव्य देव्याः पश्चात् प्रागपवर्गे रेखात्रये दक्षिणसंस्थाक्रमेण गुर्वोघत्रयं यजेत् । यथा ――――――――――――― सौः पराभट्टारिकादेव्यम्बाश्रीपादुकां पूजयामि तर्पयामि नमः, अघोरानन्दनाथश्री, श्रीकण्ठानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || इति दिव्यौघः ॥ सौः शक्तिधरानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, क्रोधानन्दनाथश्री', त्र्यम्बकानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति सिद्धौषः ॥ " सौः आनन्दानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, प्रतिभादेव्यम्बानन्द, 'वीरानन्द, संविदानन्द, मधुरादेव्यम्बानन्द ज्ञानानन्द, श्रीरामानन्द, योगानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति मानवौघः ॥ 1 परा-अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy