SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उन्मनोल्लासः षष्ठः - परापद्धतिः यागमन्दिरप्रवेशः एवं त्रिराचम्य, यागमन्दिरमासाद्य, द्वारस्थण्डिलं गोमयेनोपलिप्य, यागगृहं च रङ्गबल्लीपुष्पमालिकावितानादिभिश्चालङ्कृत्य द्वारस्य दक्षवामशाखयोः ऊर्ध्वभागे चक्रमेण— १९१ सौः भद्रकाल्यै नमः, भैरवाय, लम्बोदराय नमः ॥ इति तिस्रो द्वारदेवताः सम्पूज्य, अन्तः प्रविष्टः सौः रक्तद्वादशशक्तियुक्ताय दीपनाथाय नमः इति पुष्पाञ्जलिना भूमौ दीपनाथमिष्ट्वा, सपर्यासामग्रीं स्वदक्षिणभागे निधाय, प्रज्वालितदीपो गन्धमाल्यादिभिरलङ्कृतात्मा जातीपत्रफलैलालवङ्गकर्पूराख्यपञ्चतिक्तेनामोदितवदनः प्रसन्नमनाः स्वास्तीर्णे ऊर्णामृदुनि शुचिनि मूलेन द्वादशवारमभिमन्त्रिते सकृत्प्रोक्षिते चासने सौः आधारशक्तिकमलासनाय नमः इति प्राङ्मुख उदङ्मुखो वा पद्मस्वस्तिकाद्यन्यतमेन आसनेनोपविश्य, सौः समस्तगुप्तप्रकटसिद्धयोगिनीचक्रदेवताश्रीपादुकाभ्यो नमः इति मूर्धनि बद्धाञ्जलिः सौः ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं हरू ह स क्ष म ल व र यूं स ह क्ष म ल व रयीं ह्सौं स्हौः अमुकाम्बा - सहितामुकानन्दनाथश्रीगुरुश्रीपादुकां पूजयामीति मन्त्रेण मस्तके निजदेशिकमभिवन्द्य गं गणपतये नमः इति मूर्धनि बद्धाञ्जलिः अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥ इति मन्त्रं सकृदुच्चार्य युगपद्वामपाणिभूतलत्रिराघातकरास्फोटत्रितयक्रूरदृष्टयवलोकनपूर्वकं ताळत्रयेण भौमान्तरिक्षदिव्यान् भेदावभासकान् विघ्नानुत्सारयेत् । ताळत्रयलक्षणं तु पूर्वोक्तमेव ग्राह्यम् ॥ प्राणायामः अथ श्रीक्रमोक्तेन विधिना भूतशुद्धिमात्मप्राणप्रतिष्ठां च विधाय सौःवर्णपूर्वकं मातृकावर्णैः श्रीक्रमोक्तेन क्रमेण बहिर्मातृकान्यासं कृत्वा षोडशवारमावृत्तेन मूलेन पूरकं चतुःषष्टिवारमावृत्तेन कुम्भकं द्वात्रिंशद्वारमावृत्तेन रेचकं इति विंशतिधा षोडशधा दशधा सप्तधा त्रिधा वा प्राणानायम्य ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy