SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १८० नित्योत्सवः देवीतर्पणम् अथ मूलान्ते वार्ताळीश्रीपादुकां पूजयामि तर्पयामीति वामकरतत्त्वमुद्रासन्दष्टद्वितीयशकलगृहीतक्षीरबिन्दुसहपतितैः दक्षकरोपात्तकुसुमक्षेपैः देवी दशवारं सन्तर्प्य पूर्वोक्तानां षडङ्गमन्त्राणां अन्ते-हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः, शिरःशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः, शिखाशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः, कवचशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः, नेत्रशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः, अस्त्रशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः, इति क्रमेण देव्यङ्गे अग्नीशासुरवायुकोणेषु मौळौ प्रागादिदिक्षु च षडङ्गानि सम्पूज्य ॥ ओघत्रययजनम् पृष्ठतः प्रागपवर्ग रेखात्रये दक्षिणसंस्थाक्रमेण गुर्वोत्रयं यजेत् । यथा ऐं ग्लौं परप्रकाशानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, परमेशानन्द, परशिवानन्द (परसिद्धानन्द इति पाठान्तरं), कामेश्वर्यम्बानन्द, मोक्षानन्द, कामानन्द, अमृतानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति दिव्यौघः ॥ ऐं ग्लौं ईशानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, तत्पुरुषानन्द, अघोरानन्द, वामदेवानन्द, सद्योजातानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति सिद्धौघः ॥ ____ ऐं ग्लौं पञ्चोत्तरानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः, परमानन्द, सर्वज्ञानन्द, सर्वानन्द, सिद्धानन्द, गोविन्दानन्द, शङ्करानन्दनाथश्रीपादुकां - पूजयामि तर्पयामि नमः ॥ इति मानवौघः ॥ आहत्य एकोनविंशतिगुरवः ॥ आवरणार्चनम् अङ्गाद्यावरणान्तानां अर्चनप्रकारस्तु देव्यर्चनोक्त एव ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy