SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७८ नित्योत्सवः यन्तप्राणप्रतिष्ठा अथ व्यापकत्रयं मूलेन कृत्वा स्वपुरतः श्वेतपटपट्टदुकूलान्यतमे लिखिते लेखिते वा सुवर्णरजतताम्रचन्दनपीठादौ लिखिते उत्कीर्णे वा दृष्टिमनोहरे भूपुरत्रयसहस्रपत्रशतपत्राष्टपत्रषडरपञ्चारत्र्यश्रबिन्दुमये चक्रे कुसुमाञ्जलिं विकीर्य ऐं ग्लौं वार्ताळियन्त्रस्य प्राणाः इह प्राणाः, ऐं ग्लौं वार्ताळियन्त्रस्य जीव इह स्थितः, ऐं ग्लौं वार्ताळियन्त्रस्य सर्वेन्द्रियाणि, ऐं ग्लौं वार्ताळि यन्त्रस्य वाङ्मनःप्राणाः इहायान्तु स्वाहा ॥ इति यन्त्रप्राणप्रतिष्ठां विदध्यात् ॥ पीठपूजा ऐं ग्लौं स्वर्णप्राकाराय नमः, सुराब्धये, वराहद्वीपाय, वराहपीठाय, आं आधारशक्तये, कुं कूर्माय, कं कन्दाय, अं अनन्तनाळाय नमः ॥ इति पीठस्य मध्ये ॥ ऐं ग्लौं – धर्माय नमः, ऋ ज्ञानाय, लं वैराग्याय, लं ऐश्वर्याय नमः ॥ इति तस्य आग्नेयादिदिक्षु ॥ ऐं ग्लौं अधर्माय नमः, ऊँ अज्ञानाय, लं अवैराग्याय, लं अनैश्वर्याय नमः ॥ इति प्रागाद्यासु दिक्षु चाभ्यर्च्य ॥ ऐं ग्लौं त्र्यरपञ्चारषडरदळाष्टकशतपत्रसहस्रारपद्मासनाय नमः इति चक्रमनुना चक्रमिष्ट्वा ॥ ऐं ग्लौं वह्निमण्डलाय नमः, सूर्यमण्डलाय, सोममण्डलाय, सं सत्वाय, रं रजसे, तं तमसे, आं आत्मने, अं अन्तरात्मने, पं परमात्मने, ह्रीं ज्ञानात्मने नमः ॥ इति च तत्रैव वरिवस्येत् ॥ स्वर्णप्राकाराय नमः इत्याद्याः ह्रीं ज्ञानात्मने नमः इत्यन्ताः एते , सप्तविंशतिः पीठमनवो ज्ञेयाः ॥ आसनपूजा ततः २ हौं प्रेतपद्मासनाय सदाशिवाय नमः इति पुष्पैः बिन्दौ देव्यासनमभिपूज्य,
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy