SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ तदन्तोल्लास: पश्चमः-दण्डिनीक्रमः १७५ प्राणायामः अथ नमः इति अङ्गुष्ठमन्त्रमुच्चार्य अंकुशेन शिखां बद्धा श्रीक्रमोक्तेन क्रमेण भूतशुद्धिं आत्मप्राणप्रतिष्ठां च विधाय मूलेन प्राग्वत् विंशतिधा षोडशधा दशधा सप्तधा त्रिधा वा प्राणानायम्य ॥ द्वितारीन्यासः तेजोरूपदेवीमयं भावयन्नात्मानं स्वदेहे न्यासजालात्मकं वज्रकवचमामुञ्चेत् । तत्रादौ अं ऐं ग्लौं अं नमः शिरसि । आं ऐं ग्लौं आं नमः मुखवृत्ते । इत्यादिरीत्या क्षान्तमातृकासम्पुटितमुक्तबीजद्वयं मातृकास्थानेषु न्यसेत् ॥ इति द्वितारीन्यासः ॥ करषडंगन्यासौ ऐं ग्लौं अन्धे अन्धिनि नमः अङ्गुष्ठाभ्यां नमः ॥ २ रुन्धे रुन्धिनि नमः तर्जनीभ्यां नमः ॥ २ जम्भे जम्भिनि नमो मध्यमाभ्यां नमः ॥ २ मोहे मोहिनि नमः अनामिकाभ्यां नमः ॥ २ स्तम्भे स्तम्भिनि नमः कनिष्ठिकाभ्यां नमः ॥ इति पञ्चभिः मन्त्रैः अङ्गुष्ठादिकनिष्ठान्तं न्यस्य, ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि हृदयाय नमः ॥ २ वाराहि वाराहि शिरसे स्वाहा ॥ २ वराहमुखि वराहमुखि शिखायै वषट् ॥ २ अन्धे अन्धिनि नमः कवचाय हुम् ॥ २ रुन्धे रुन्धिनि नमः नेत्रत्रयाय वौषट् ॥ २ जम्भे जम्भिनि नमः अस्त्राय फट् ॥ इति मन्त्रैः हृदयादिषु न्यसेत् ॥ इति करषडङ्गन्यासौ ॥ नेह करन्यासे अस्त्रमन्त्रः, तेन करतलन्यासो न भवति ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy