SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५८ नित्योत्सवः हसन्ति हसितालापे मातङ्गिपरिचारिके । मम भयविघ्ननाशं कुरु कुरु ठः ठः ठः हुं फट् स्वाहा ॥ इति ॥ मूलमन्त्रश्च-न्यासोक्तसप्तदशखण्डसमष्टिरूपः ॥ उत्तराङ्गमन्त्रास्तु--ऐं नमः उच्छिष्टचाण्डालि मातङ्गि (हुं फट् स्वाहा इति पाठान्तरम्) सर्ववशङ्करि स्वाहा-इति श्यामाझं लघुश्यामा ॥ ऐं क्लीं सौः वद वद वाग्वादिनि स्वाहा—इति तदुपाङ्गं वाग्वादिनी ॥ ॐ ओष्ठापिधाना नकुली दन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेत् ॥ इति तत्प्रत्यङ्गं नकुली ॥ जपकाल: अयं च जपो अपराह्ने कर्तव्यः, अपराह्ने श्यामेति सूत्रेण अपराहस्य पूजाकालत्वविधानात् । अन्ये त्वामध्यन्दिनमेव । देशोपप्लवादिसम्भावनायामासायाहमपीति स्थितिः ॥ स्त्रीशूद्रयोः प्रणवप्रत्यायः द्विजातीनां जपाद्यन्तयोः प्रणवोच्चारः । स्त्रीशूद्रयोस्तु सबिन्दुकचतुर्दशस्वर उच्चार्यः ॥ पुरश्चरणांगहोमः एवं जपोत्तरं तस्मिन्नेवाहनि श्रीक्रमोक्तेन विधिना कुण्डस्थण्डिलान्यतरप्रतिष्ठापितेऽनौ देव्या उपचारान्ते सर्वासामावरणदेवतानां एकैकाहुतिं तत्तन्मन्त्रैः प्रधानदेवतायाः दशाहुतीश्च स्वाहाऽन्तमूलेन उद्देशत्यागपूर्वकं एकैकेन त्रिमध्वक्तेन पलाशकुसुमेन हुत्वा अथ जपदशांशं च हुत्वा होमशेषं समापयेत् । मन्त्रान्ते या वहिजाया सा तु मन्त्रस्वरूपिणी । तदन्तेऽन्यां प्रयुञ्जीत सा होमानतया मता ॥ इति शक्तिसङ्गमतन्त्रवचनात् स्वाहाऽङ्गमन्त्रेष्वपि पुनः स्वाहाप्रयोगः कार्यः ।
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy