SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५६ नित्योत्सवः अधोन्मीलदपाङ्गमंसवलितग्रीवं मुखं बिभ्रती माया काचन मोहिनी विजयते मातङ्गकन्यामयी ॥ वीणावाद्यविनोद'गीतनिरतां लीलाशुकोल्लासिनी बिम्बोष्ठी नवयावकार्द्रचरणामाकीर्णकेशाळिकाम् । हृयाङ्गी सितशङ्खकुण्डलधरां शृङ्गारवेषोज्वलां मातङ्गी प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥ स्रस्तं केसरदामभिः वलयितं धम्मिल्लमाबिभ्रती तालीपत्रपुटान्तरेषु घटितैस्ताटकिनी मौक्तिकैः । मूले कल्पतरोर्महामणिमये सिंहासने मोहिनी काचित् गायनदेवता विजयते वीणावती वासना ॥ वेणीमूलविराजितेन्दुशकलां वीणानिनादप्रियां क्षोणीपालसुरेन्द्रपन्नगवरैराराधिताङ्घिद्वयाम् । एणीचञ्चललोचनां सुवसनां वाणी पुराणोज्वलां श्रोणीभारभरालसामनिमिषां [षः] पश्यामि विश्वेश्वरीम् ॥ मातङ्गीस्तुतिरियमन्वहं प्रजप्ता जन्तूनां वितरति कौशलं क्रियासु । वाग्मित्वं श्रियमधिकां च गानशक्तिं सौभाग्यं नृपतिभिरर्चनीयतां च ॥ इति मन्त्रकोशे तृतीयपटलीयो मातङ्गीस्तवः सम्पूर्णः ॥ सुवासिनीपूजाऽऽदि शेषकृत्यम् अथ श्यामलां शक्तिमाहूय श्रीक्रमोक्तक्रमेण पञ्चमवर्ज तामुपचर्य तच्छेषमुररीकृत्य हविःप्रतिपत्त्यादिक्रमशेष समापयेत् । हविःप्रतिपत्तौ मूलेन सर्वेण तत्त्वत्रयशोधनं विशेषः ॥ 'नैकनि–श्री. ' वलिम्--श्री.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy