SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः — श्रीक्रमः स्वप्नवाराहीमन्त्रस्य अग्निः ऋषिः । गायत्री छन्दः । स्वप्नवाराही देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् — स्वप्ने शुभाशुभं भावि शासन्तीं भक्तकार्ययोः । दुःस्वप्नहारिणीं वन्दे वाराहीं स्वप्ननायिकाम् || ३२ ॥ तिरस्करिणीमन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । तिरस्करिणी देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् - मुक्तकेशीं विवसनां सर्वाभरणभूषिताम् । स्वयोनिदर्शनान्मुह्यत्पशुवर्गो नमाम्यहम् ॥ ३३ ॥ 1 वाराहीगुरुपादुकामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । वाराहीगुरुपादुका देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् - देशिकाङ्घ्रिलसन्मौलिं खगिनीं च कपालिनीम् । भावयामि घनच्छायां पञ्चमीगुरुपादुकाम् ॥ ३४ ॥ श्रीमहावाराहीमन्त्रस्य स्पष्टम् ॥ ३५ ॥ श्रीपूर्तिविद्यामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीपूर्तिविद्या देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ३६ ॥ महापादुकामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीमहापा देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् - १३५ सर्वविद्यामयीं सर्वशक्तिपीठस्वरूपिणीम् । कराग्रे हृदये मूले देशिकाङ्घ्रियुगत्रयम् ॥ दधतीं दीप्तभूषाढ्यां श्रीमहापादुकां नुमः ॥ ३७ ॥ इति रश्मिमालाया ऋप्यादयः ॥ इति जपप्रकरणं षष्ठं समाप्तम्
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy