SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लास: तृतीयः-श्रीक्रमः १०५ तदनु स्वाधिष्ठानाख्यपद्मे रसदललसिते वेदवक्त्रां त्रिणेत्रां ___ हस्ताजैर्धारयन्तीं त्रिशिखगुणकपालाङ्कुशानात्तगर्वाम् । मेदोधातुप्रतिष्ठामलिमदमुदितां बन्धिनीमुख्ययुक्तां पीतां दध्यादनेष्टामभिमतफलदां काकिनी भावयामः ॥ इति ध्यात्वा ऐं ह्रीं श्रीं कां की क म ल व र यूं काकिन्यै नमः । ३ ब भ म य रं लं मां रक्ष रक्ष मेदआत्मानं नमः ॥ इति गुह्यस्थानगतषड्दलस्वाधिष्ठानसरसिजकर्णिकायां काकिनी न्यस्य, तद्दलेषु तदावरणशक्तीः प्राग्वत् .न्यसेत् । यथा--- ऐं ह्रीं श्रीं बं बन्धिन्यै नमः, भं भद्रकाल्यै, में महामायायै, यं यशस्विन्यै, रं रक्तायै, लं लम्बोष्ठयै नमः ॥ ततः मूलाधारस्थपञ श्रुतिदललसित पञ्चवक्त्रां त्रिणेत्रां धूम्राभामस्थिसंस्थां सृणिमपि कमलं पुस्तकं ज्ञानमुद्राम् । बिभ्राणां बाहुदण्डैः सुललितवरदापूर्वशक्त्यावृतां तां ___ मुद्दान्नासक्तचित्तां मधुमदमुदितां साकिनी भावयामः ॥ इति ध्यात्वा ऐं ह्रीं श्रीं सां सी स म ल व र यूं साकिन्यै नमः । वं शं षं सं मां रक्ष रक्ष अस्थ्यात्मानं नमः ॥ इति पायूपस्थमध्यगतचतुर्दलमूलाधारकमलकर्णिकायां साकिनी न्यस्य, तद्दलेषु पूर्ववत् तदावृतिशक्तीः न्यसेत् । यथा ऐं ह्रीं श्रीं वं वरदायै नमः, शं श्रियै, षं षण्डायै, सं सरस्वत्यै नमः ॥ अथ - भ्रूमध्ये बिन्दुपट्टे दलयुगकलिते शुक्लवर्णी कराब्जैः बिभ्राणां ज्ञानमुद्रां डमरुकममलामक्षमालां कपालम् ।
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy