SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८८ नित्योत्सवः ततः, ऐं ह्रीं श्रीं वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा ॥ ३ ॐ उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्ष सर्बकर्माणि साधय मे देहि दापय स्वाहा ॥ ॐ चित्पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा ॥ ३ इत्यादिभिः प्रागुक्तैः त्रिभिर्मन्त्रैः अस्तिस्र आहुती: जुहुयात् । अथ अग्नेर्मध्यभागे स्थितायां दक्षिणोत्तरायतायां बहुरूपाऽऽख्यजिह्वायां आवाहनमन्त्रेण— ऐं ह्रीं श्रीं हौं ह्स्र्क्लीं ह्स्र्सौः महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ इति श्रीदेवीमावाह्य उपचारमन्त्रैः गन्धादीन् पञ्चोपचारानाचर्य प्रथमं अङ्गदेवीनित्यौघत्रयावरणदेवता चक्रेश्वरीणां एकैकामाज्याद्यन्यतमाहुतिमुद्देशत्यागपूर्वं कृत्वा अथ प्रधानदेवतायाश्च तथैव दशाहुतीर्जुहुयात् । पुरश्चरणादिहोमाहुतयस्तु इत उत्तरं कार्याः । तत्र नित्यासु चक्रेश्वरीषु अङ्गदेवीषु च तत्तन्मन्त्रान्ते चतुर्थ्यन्तं तत्तन्नामोत्तरं स्वाहापदप्रयोगः । वशिन्यादिष्वायुधेषु चोक्तमन्त्रगतं नमः शब्दमपोह्य स्वाहाशब्दयोजनम् । अवशिष्टेषु ओधत्रयाणिमाऽऽदिषु दैवतेषु चतुर्थ्यन्तं तत्तन्नामोत्तरं स्वाहापदसम्बन्धः इति विशेषः । यथा ऐं ह्रीं श्रीं अं ऐं स क ल ह्रीं नित्यक्लिन्ने मदद्रवे सौः अं कामेश्वरीनित्यायै स्वाहा । कामेश्वरीनित्याया इदं न मम ॥ इत्यादि ॥ अं आं सौः त्रिपुराचक्रेश्वर्यै स्वाहा । त्रिपुराचक्रेश्वर्या इदं न मम ॥ इत्यादि ॥ अं आं इं ईं उं ऊं ऋ ऋ लं लूं एं ऐं ॐ औं अं अः ब्लूं वशिनीवाग्देवतायै स्वाहा । वशिनीवाग्देवताया इदं न मम ॥ इत्यादि ॥ द्रां द्रीं क्लीं ब्लूं सः सर्वजम्भनेभ्यो बाणेभ्यः स्वाहा । सर्वजम्भनेभ्यो बाणेभ्य इदं न मम ॥ इत्यादि ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy