SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २४ परशुरामकल्पसूत्रम् रूपग्राहकमिन्द्रियं चक्षुरेकोनविंशं तत्त्वम् । रसग्राहकमिन्द्रियं रसनं विंशं तत्त्वम् । गन्धग्राहकमिन्द्रियं घ्राणं एकविंशं तत्त्वम् । 1 व्यक्तवागुच्चारणानुकूलवागिन्द्रियं द्वाविंशं तत्त्वम् । ग्रहणत्यागानुकूलमिन्द्रियं पाणिः त्रयोविंशं तत्त्वम् । गमनानुकूलमिन्द्रियं पादः चतुर्विंशं तत्त्वम् । मलविसर्गजनकमिन्द्रियं पायुः पञ्चविंशं तत्त्वम् । मैथुनजनकमिन्द्रियं उपस्थः षड्विंशं तत्त्वम् । सूक्ष्माकाशरूपः शब्दः सप्तविंशं तत्त्वम् । सूक्ष्मवायुरूपः स्पर्शः अष्टाविंशं तत्त्वम् । सूक्ष्मतेजोरूपं रूपं एकोनत्रिंशं तत्त्वम् । सूक्ष्मजलरूपो रसः त्रिंशं तत्त्वम् । सूक्ष्मपृथ्वीरूपो गन्धः एकत्रिंशं तत्त्वम् । अवकाशात्मकाकाशः स्थूल: द्वात्रिंशं तत्त्वम् । सदागतिमत्त्वात्मकगुणवान् वायुः त्रयस्त्रिंशं तत्त्वम् । उष्णत्ववत्तेजः चतुस्त्रिंशं तत्त्वम् । द्रवत्ववज्जलं पञ्चत्रिंशं तत्त्वम् । काठिन्यगुणवती पृथ्वी षट्त्रिंशं चरमं तत्त्वम् । एतादृशतत्त्वसंघातो विश्वं जगदिति व्यवहारविषयाभिन्नम् । उक्तार्थे प्रमाणं परमानन्दतन्त्रे— यत्काठिन्यं तद्धरा स्याद्द्रवो वै जलमुच्यते । उष्णं तेजस्संचलनं वायुर्व्योमावकाशकम् ॥ एतेषां सूक्ष्मरूपं तु अनुद्भिन्न' विभागकम् । गन्धस्पर्शो रूपरसौ शब्दस्तन्मात्राणि वै ॥ ज्ञानेन्द्रियाण्येषां घ्राणं जिह्वा च लोचनम् । श्रोत्रं चेति पञ्चानां ग्रहणव्यापृतानि वै ॥ त्वक् विभावकम् —ब.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy