SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ दशमः खण्डः —सर्वसाधारणक्रमः ३३३ समर्चाऽन्ते शक्तिपूजाऽन्ते । अयं पञ्चमद्वितीयप्रकार : स्वयोषित्स्वेव । तदुक्तं स्वतन्त्रतन्त्रे आद्यं तत्र कलौ देवि त्रिसहस्रान्तमिष्यते । द्वितीयं तु भवेत् देवि स्वयोषित्सु सुरेश्वरि ॥ इति ॥ पञ्चमस्य तृतीयप्रकारो रहस्यार्णवे - - अथवा शिष्यभूतां वा चान्यां वाऽपि महेश्वरि । प्रार्थितो वा तथा स्वेन प्रार्थितां वाऽपि शंकरि ॥ संपूजयित्वा पूजाऽन्ते भोगपात्रं निवेद्य च । मनसा तां समागच्छन् देवतायै निवेदयेत् ॥ इति ॥ मनसा तया कृतं संभोगं देव्यै समर्पयेत् इत्यर्थः । एवं त्रिप्रकारं मुख्यम् । अमीषामभावे तत्प्रतिनिधिरुक्तो योगिनीतन्त्रे रक्तं तु करवीरं वै तथा कृष्णाऽपराजिता । एतत् प्रोक्तं लिङ्गयोन्योः पुष्पं तत्र तु योजयेत् ॥ इति ॥ परमानन्दतन्त्रे कुसुमे लिङ्गयोन्योर्वा सकाश्मीरं च चन्दनम् ॥ इति ॥ शुकस्थाने चन्दनं शोणितस्थाने काश्मीरं योजयित्वा तत्र मैथुनबुद्धिं विभाव्य श्रीदेव्यै अर्पणं कुर्यात् इति भावः । अयं प्रकारोऽपि सामयिकपूजाऽन्ते शक्तिपूजाऽन्ते वा । अर्घ्यपात्रे पञ्चमप्रतिनिधिमेळनमपि योगिपरम् । तेषामपि कलौ त्रिसहस्रवर्षपर्यन्तं ज्ञेयम् ॥ 1 एवमुक्तो मपञ्चकप्रकारः ॥ ६३ ॥ अवशिष्टकुलाचारधर्माः अथ पूर्वोक्तावशिष्टाः ये कुलाचारधर्माः तानाह - सर्वत्र वचनपूर्वं प्रवृत्तिः ॥ ६४ ॥ 1 1
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy