SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०५ दशमः खण्ड:--सर्वसाधारणक्रमः प्रबोधाव्यवहितत्वं प्रतीयते । अन्यथा तदुत्तरं वक्ष्यमाणसंविद्ध्यानादेः निद्रासमये असंभवेनार्थसिद्धे तत्कालप्रबोधे मुक्तस्वाप इति विशेषणं व्यर्थ स्यात्--इति वाच्यम् । ब्राह्मे मुहूर्ते निद्रां रागप्राप्तां निवारयत् तच्चरितार्थम् । अत्र सुप्तोत्थितेनेति विशेषणस्य तथा गत्यभावात् उत्थानानन्तरकालाङ्गतामेव प्रतिपादयति ॥ एतेन निबन्धे व्युत्क्रमेण पाठः अप्रामाणिक एवेति सिद्धः ॥ १ ॥ गायत्र्यादि प्रथमं रश्मिपञ्चकम् अथ रश्मिमालासंज्ञकान् मन्त्रान् दर्शयति--- प्रणवो भूर्भुवस्सुवः तत्सवितुर्वरेणियं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इति त्रिंशद्वर्णा गायत्री॥ यत इन्द्र भयामहे ततो नो अभयं 'कुरु । मघवञ्छन्धि तव तन्न ऊतये विद्विषो विमृधो जहि॥ स्वस्तिदा विशस्पतिवृत्रहा विमृधो वशी। वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः ॥ इत्यैन्द्री सप्तषष्ठ्यर्णा सङ्कटे भयनाशिनी ॥ प्रणवो घृणिस्सूर्य आदित्यों इत्यष्टार्णा सौरी तेजोदा ॥ प्रणवः केवलो ब्रह्मविद्या मुक्तिदा ॥ तारः परो रजसे सावदों इति नवार्णा तुर्यगायत्री स्वैक्यविमर्शिनी ॥ 1 कृधि-श्री. 39
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy